Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 59/ मन्त्र 3
उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑। य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रि॑पो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥
स्वर सहित पद पाठउत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंश॑: । धन॑म् । न । जि॒ग्युष॑: ॥ य: । इन्द्र॑: । हरि॑ऽवान् । न । द॒भ॒न्ति॒ । तम् । रिप॑: । दक्ष॑म् । द॒धा॒ति॒ । सो॒मिनि॑ ॥५९.३॥
स्वर रहित मन्त्र
उदिन्न्वस्य रिच्यतेंऽशो धनं न जिग्युषः। य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥
स्वर रहित पद पाठउत् । इत् । नु । अस्य । रिच्यते । अंश: । धनम् । न । जिग्युष: ॥ य: । इन्द्र: । हरिऽवान् । न । दभन्ति । तम् । रिप: । दक्षम् । दधाति । सोमिनि ॥५९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 59; मन्त्र » 3
विषय - ३-४ राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(अस्य) उस [राजा] का (इत्) ही (अंशः) भाग (जिग्युषः) विजयी वीर के (धनं न) धन के समान (नु) शीघ्र (उत् रिच्यते) बढ़ता जाता है (यः) जो (हरिवान्) श्रेष्ठ मनुष्योंवाला (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला राजा] (सोमिनि) तत्त्व रसवाले व्यवहार में (दक्षम्) बल को (दधाति) लगाता है, और (तम्) उस [राजा] को (रिपः) वैरी लोग (न) नहीं (दभन्ति) सताते हैं ॥३॥
भावार्थ - जो राजा अपने बल को श्रेष्ठ व्यवहारो में लगाता है, वह राज्य में उन्नति करके प्रतिष्ठा पाता है ॥३॥
टिप्पणी -
मन्त्र ३, ४ ऋग्वेद में है-७।३२।१२, १३ ॥ ३−(उत्) आधिक्ये (इत्) एव (नु) क्षिप्रम् (अस्य) राज्ञः (रिच्यते) अधिको भवति (अंशः) भागः (धनम्) (न) इव (जिग्युषः) जि जये-क्वसु। जयशीलस्य (यः) (इन्द्रः) परमैश्वर्यवान् राजा (हरिवान्) प्रशस्तमनुष्यैर्युक्तः (न) निषेधे (दभन्ति) हिंसन्ति (तम्) राजानम् (रिपः) रिपवः। शत्रवः (दक्षम्) बलम् (दधाति) धरति (सोमिनि) तत्त्वरसवति व्यवहारे ॥