अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 6
यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे। आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्यस्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥
स्वर सहित पद पाठयस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । य: । शि॒श्राय॑ । म॒घऽवा॑ । काम॑म् । अ॒स्मै इति॑ ॥ आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रु॑: । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥८९.६॥
स्वर रहित मन्त्र
यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे। आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥
स्वर रहित पद पाठयस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । य: । शिश्राय । मघऽवा । कामम् । अस्मै इति ॥ आरात् । चित् । सन् । भयताम् । अस्य । शत्रु: । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम् ॥८९.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 6
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(यस्मिन्) जिस (इन्द्रे) इन्द्र [बड़े प्रतापी वीर] में (शंसम्) अपनी इच्छा को (वयम्) हमने (दधिम) रक्खा था और (यः) जिस (मघवा) धनवान् ने (अस्मे) हममें (कामम्) अपनी कामना को (शिश्राय) आश्रय दिया था। (आरात्) दूर (चित्) भी (सन्) रहता हुआ (शत्रुः) शत्रु (अस्य) उसका (भयताम्) भय माने, और (अस्मै) उसके लिये (जन्या) लोगों के हितकारी (द्युम्नानि) प्रकाशमान यश (नि) नित्य (नमन्तात्) नमते रहें ॥६॥
भावार्थ - जहाँ पर प्रजागण और प्रधान वीर पुरुष परस्पर हित के लिये प्रयत्न करते हैं, वहाँ पर शत्रु लोग दुराचार नहीं करते, और सब लोग उन्नति करके यशस्वी होते हैं ॥६॥
टिप्पणी -
६−(यस्मिन्) (वयम्) प्रजागणाः (दधिम) धृतवन्तः (शंसम्) शसि इच्छायाम्-घञ्। आशंसाम्। आकाङ्क्षाम् (इन्द्रे) परप्रतापिनि वीरे (यः) (शिश्राय) आश्रितवान्। स्थापितवान् (मघवा) धनवान् (कामम्) अभिलाषम् (अस्मे) अस्मासु (आरात्) दूरे (चित्) अपि (सन्) भवन् (भयताम्) बिभेतु। भयं प्राप्नोतु (अस्य) वीरस्य (शत्रुः) (नि) नितराम् (अस्मै) वीराय (द्युम्ना) द्योतमानानि यशांसि (जन्या) जनहितानि (नमन्ताम्) प्रह्वीभवन्तु ॥