अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 4
त्वां जना॑ ममस॒त्येष्वि॑न्द्र सन्तस्था॒ना वि ह्व॑यन्ते समी॒के। अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॑न्नासुन्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥
स्वर सहित पद पाठत्वाम् । जना॑: । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒ना: । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के ॥ अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । य: । ह॒विष्मा॑न् । न । असु॑न्वत । स॒ख्यम् । व॒ष्टि॒ । शूर॑: ॥८९.४॥
स्वर रहित मन्त्र
त्वां जना ममसत्येष्विन्द्र सन्तस्थाना वि ह्वयन्ते समीके। अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥
स्वर रहित पद पाठत्वाम् । जना: । ममऽसत्येषु । इन्द्र । सम्ऽतस्थाना: । वि । ह्वयन्ते । सम्ऽईके ॥ अत्र । युजम् । कृणुते । य: । हविष्मान् । न । असुन्वत । सख्यम् । वष्टि । शूर: ॥८९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 4
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (ममसत्येषु) अपने-अपने उद्देश्य को सत्य माननेवाले सङ्ग्रामों के बीच (समीके) भिड़ के (सतस्थानाः) सजकर खड़े हुए (जनाः) लोग (त्वाम्) तुझको (वि) विविध प्रकार (ह्वयन्ते) पुकारते हैं। (अत्र) यहाँ पर (शूरः) शूर पुरुष [उस मनुष्य को] (युजम्) साथी (कृणुते) बनाता है, (यः) जो (हविष्मान्) भक्तिवाला है, और (असुन्वता) तत्त्व रस के न निकालनेवाले के साथ (सख्यम्) मित्रता (न) नहीं (वष्टि) चाहता है ॥४॥
भावार्थ - जहाँ पर दो पक्षवाले आपस में अपने-अपने उद्देश्य के लिये लड़ते हों, बुद्धिमान् पुरुष मध्यस्थ होकर धर्म्मात्मा का सहाय करें ॥४॥
टिप्पणी -
पदपाठ के (असुन्वत) पद में भूल दीखती है, ऋग्वेद का (असुन्वता) पदपाठ संहिता के अनुकूल है, उसीके अनुसार हमने अर्थ किया है ॥ ४−(त्वाम्) (जनाः) (ममसत्येषु) ममप्रयोजनं सत्यम्-इति ब्रुवाणा योद्धारः सन्ति यत्र। ममसत्यं संग्रामनाम-निघ० २।१७। सङ्ग्रामेषु (इन्द्र) हे परमैश्वर्यवन् पुरुष (सन्तस्थानाः) तिष्ठतेः-कानच्। सम्यक् तिष्ठन्तः (वि) विविधम् (ह्वयन्ते) आह्वयन्ति (समीके) अलीकादयश्च। उ० ४।२। सम्+इण् गतौ-ईकन्। धातुलोपः। सङ्गमे। संग्रामे-निघ० २।१७। (अत्र) अस्मिन् विषये (युजम्) सखायम् (कृणुते) कुरुते (यः) पुरुषः (हविष्मान्) भक्तिमान् (न) निषेधे (असुन्वत) असुन्वता-ऋग्वेदपदपाठो यथा। तत्त्वरसं निष्पादयता (सख्यम्) सखित्वम् (वष्टि) कामयते (शूरः) निर्भयः ॥