अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 6
सूक्त - अथर्वा
देवता - दधिक्रावा, अश्वसमूहः
छन्दः - त्रिष्टुप्
सूक्तम् - कल्याणार्थप्रार्थना
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑। अ॑र्वाची॒नं व॑सु॒विदं॒ भगं॑ मे॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥
स्वर सहित पद पाठसम् । अ॒ध्व॒राय॑ । उ॒षस॑: । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव । शुच॑ये । प॒दाय॑ । अ॒र्वा॒ची॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । मे॒ । रथ॑म्ऽइव । अश्वा॑: । वा॒जिन॑: । आ । व॒ह॒न्तु॒ ॥१६.६॥
स्वर रहित मन्त्र
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥
स्वर रहित पद पाठसम् । अध्वराय । उषस: । नमन्त । दधिक्रावाऽइव । शुचये । पदाय । अर्वाचीनम् । वसुऽविदम् । भगम् । मे । रथम्ऽइव । अश्वा: । वाजिन: । आ । वहन्तु ॥१६.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 6
विषय - बुद्धि बढ़ाने के लिये प्रभात गीत।
पदार्थ -
(उषसः) उषायें [प्रभात वेलायें] (अध्वराय) मार्ग देने के लिए, अथवा हिंसारहित यज्ञ के लिए (सम् नमन्त=०-न्ते) झुकती हैं, (दधिक्रावा इव) जैसे चढ़ाकर चलनेवाला, वा हींसनेवाला घोड़ा (शुचये) शुद्ध [अचूक] (पदाय) पद रखने के लिये। (वाजिनः) अन्नवान् वा बलवान् वा ज्ञानवान् (अर्वाचीनम्) नवीन नवीन और (वसुविदम्) धन प्राप्त करानेवाले (भगम्) ऐश्वर्य को (मे) मेरे लिये (आ वहन्तु) लावें (अश्वाः इव) जैसे घोड़े (रथम्) रथ को [लाते हैं] ॥६॥
भावार्थ - जैसे उषा देवी अन्धकार हटाकर मार्ग खेलती चलती है अथवा, जैसे बली और वेगवान् घोड़ा अपने अश्ववार वा रथको मार्ग चलकर ठिकाने पर शीघ्र पहुँचाता है, इसी प्रकार पुरुषार्थी पुरुष बड़े-बड़े महात्माओं के सत्सङ्ग और अनुकरण से अपना ऐश्वर्य बढ़ाते रहें ॥६॥ ‘मे’ के स्थान पर ऋग् और यजुर्वेद में ‘नः’ पद है ॥
टिप्पणी -
६−(अध्वराय) अ० १।४।१। अध्वन्+रा-क। यद्वा, न+ध्वृ हिंसने-अच्। अध्वर इति यज्ञनाम ध्वरतिर्हिंसाकर्मा तत्प्रतिषेधः-निरु० १।८। मार्गदानाय। अहिंसामयाय व्यवहाराय यज्ञाय। (उषसः) प्रभाताः। (सं नमन्त) छान्दसो लट्। संनमन्ते। प्रह्वीभवन्ति। (दधिक्रावा) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। इति डुधाञ् धारणपोषणयोः-कि, स च लिड्वत्। इति दधिः। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति दधि+क्रमु, पादविक्षेपे वा क्रदि आह्वाने, क्रन्द सातत्यशब्दे-वनिप्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। दधिक्रावा=अश्वः-निघ० १।१४। दधत् क्रामतीति वा दधत् क्रन्दतीति वा दधदाकारी भवतीति वा-निरु० २।२७। दधिः, धारयिता सन् क्रामतीति वा क्रन्दतीति वा दधिक्रावा। दधिक्राः। अश्वः। (शुचये) शुद्धाय। प्रमादशून्याय। (पदाय) गमनाय। (अर्वाचीनम्) अर्वाच्-ख। इदानीन्तनम्। नूतनम्। (वसुविदम्) इगुपध०। पा० ३।१।१३५। इति वसु+विद लाभे-क। धनानां लम्भकं प्रापकम्। (भगम्) ऐश्वर्यम्। (मे) मह्यम्। (रथमिव) हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२। इति रमु क्रीडने-क्थन्। यानं यथा। (अश्वाः) घोटाः। (वाजिनः) वज गतौ-घञ्। वाजः=अन्नम्, निघ० २।७। बलम्, निघ० २।९। अत इनिठनौ। पा० ५।२।११५। इति इनि। अन्नवन्तः। बलवन्तः। ज्ञानवन्तः। (आ वहन्तु) आगमयन्तु ॥