अथर्ववेद - काण्ड 3/ सूक्त 8/ मन्त्र 4
सूक्त - अथर्वा
देवता - विश्वे देवाः
छन्दः - चतुष्पदा विराद्बृहतीगर्भा त्रिष्टुप्
सूक्तम् - राष्ट्रधारण सूक्त
इ॒हेद॑साथ॒ न प॒रो ग॑मा॒थेर्यो॑ गो॒पाः पु॑ष्ट॒पति॑र्व॒ आज॑त्। अ॒स्मै कामा॒योप॑ का॒मिनी॒र्विश्वे॑ वो दे॒वा उ॑प॒संय॑न्तु ॥
स्वर सहित पद पाठइ॒ह । इत् । अ॒सा॒थ॒ । न । प॒र: । ग॒मा॒थ॒ । इर्य॑: । गो॒पा: । पुष्ट॒ऽपति॑: । व॒: । आ । अ॒ज॒त् । अ॒स्मै । कामा॑य । उप॑ । का॒मिनी॑: । विश्वे॑ । व॒: । दे॒वा: । उ॒प॒ऽसंय॑न्तु ॥८.४॥
स्वर रहित मन्त्र
इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्। अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥
स्वर रहित पद पाठइह । इत् । असाथ । न । पर: । गमाथ । इर्य: । गोपा: । पुष्टऽपति: । व: । आ । अजत् । अस्मै । कामाय । उप । कामिनी: । विश्वे । व: । देवा: । उपऽसंयन्तु ॥८.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 8; मन्त्र » 4
विषय - प्रीति उत्पन्न करने का उपदेश।
पदार्थ -
[हे प्रजाओं ! स्त्री-पुरुषों !] (इह इत्) यहाँ पर ही (असाथ) रहो, (परः) दूर (न) मत (गमाथ) जाओ, (इर्यः) अन्नवान् वा विद्यावान् (गोपाः) भूमि, वा विद्या वा गौ का रक्षक, (पुष्टपतिः) पोषण का स्वामी पुरुष (वः) तुमको (आ, अजत्) यहाँ लावे। (अस्मै) इस [पुरुष] के अर्थ (कामाय) कामना [की पूर्ति] के लिए (विश्वे) सब (देवाः) उत्तम-उत्तम गुण (कामिनीः) उत्तम कामनावाली (वः) तुम प्रजाओं को (उप) अच्छे प्रकार से (उपसंयन्तु) आकर प्राप्त हों ॥४॥
भावार्थ - राजा राज्य की वृद्धि के लिए प्रजा अर्थात् स्त्री-पुरुषों को नगरों में बसावे और अन्नादि से पोषण करके शुभ गुणों के उपार्जन में सदा प्रवृत्त रक्खे ॥४॥
टिप्पणी -
४−(इह)। अस्मिन् राज्ये। (इत्)। एव। (असाथ)। अस्तेर्लेटि आडागमः। भवत। वर्तध्वम्। (न)। निषेधे। (परः)। पूर्वाधरावराणामसि०। पा० ५।३।३९। इति छन्दसि पर-असि। दूरे। (गमाथ)। गमेर्लेटि आडागमः। गच्छत। (इर्यः)। ऋज्रेन्द्राग्र०। उ० २।२८। इति इण् गतौ रक्, टाप् गुणाभावो निपात्यते। इरा, अन्ननाम-निघ० २।७। सरस्वती। तत्र साधुः। पा० ४।४।९८। इति इण्-यत्। अन्नवान्। विद्यावान्। (गोपाः)। आतो मनिन्क्वनिब्वनिपश्च। पा० ४।२।७४। इति गो+पा रक्षणे-विच्। चितः। पा० ६।१।१६३। इति अन्तोदात्तः। गां भूमिं वाचं धेनुं वा पातीति। भूपालः। विद्यारक्षकः। धेनुरक्षकः। (पुष्टपतिः)। पुष्टस्य पोषणस्य स्वामी। (वः)। युष्मान्। (आ, अजत्)। अज गतिक्षेपणयोः। आगमयतु। आनयतु। (अस्मै)। अस्य हिताय। (कामाय)। शुभकामनासिद्धये। इष्टप्राप्तये। (उप)। अधिके। पूजायाम्। (कामिनीः)। काम-इनि, ङीप्। शुभकामवतीः प्रजाः। (विश्वे)। सर्वे। (देवाः)। दिव्यगुणाः। (उपसंयन्तु)। इण् गतौ-लोट्। समीपे सम्यक्-प्राप्नुवन्तु ॥