अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 3
सूक्त - मृगारः
देवता - वायुः, सविता
छन्दः - अतिशक्वरीगर्भा जगती
सूक्तम् - पापमोचन सूक्त
तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो। यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठतव॑ । व्र॒ते । नि । वि॒श॒न्ते॒ । जना॑स: । त्वयि॑ । उत्ऽइ॑ते । प्र । ई॒र॒ते॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । यु॒वम् । वा॒यो॒ इति॑ । स॒वि॒ता । च॒ । भुव॑नानि । र॒क्ष॒थ॒: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.३॥
स्वर रहित मन्त्र
तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो। युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठतव । व्रते । नि । विशन्ते । जनास: । त्वयि । उत्ऽइते । प्र । ईरते । चित्रभानो इति चित्रऽभानो । युवम् । वायो इति । सविता । च । भुवनानि । रक्षथ: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 3
विषय - पवन और सूर्य के गुणों का उपदेश।
पदार्थ -
[हे वायु] (तव) तेरे (व्रते) वरणीय नियम में (जनासः) सब जने (निविशन्ते) प्रवृत्त होते हैं, और (चित्रभानो) हे विचित्र प्रकाशवाले सूर्य ! (त्वयि उदिते) तेरे उदय होने पर [कामों में] (प्रेरिते) लगते हैं। (वायो) हे वायु ! (च) और (सविता) हे सूर्य ! (युवम्) तुम दोनों (भुवनानि) सब प्राणियों को (रक्षथः) बचाते हो, (तौ) तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥३॥
भावार्थ - वायुविद्या और सूर्यविद्या से उपकार लेकर मनुष्य अनेक प्रकार के लाभ उठावें ॥३॥
टिप्पणी -
३−[हे वायो] (तव) त्वदीये (व्रते) अ० २।३०।२। वरणीये कर्मणि। नियमे (निविशन्ते) नेर्विशः। पा० १।३।१७। इति आत्मनेपदम्। नितरां वर्तन्ते (जनासः) जनाः। प्राणिनः (त्वयि) सवित्रि (उदिते) उदयं प्राप्ते सति (प्रेरिते) ईर गतौ। प्रवर्तन्ते (चित्रभानो) हे विचित्रदीप्ते सवितः (युवम्) युवाम् (वायो) (सविता) हे सवितः, त्वम् (च) (भुवनानि) भूतजातानि (रक्षथः) पालयथः। अन्यत् पूर्ववत् ॥