अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 6
सूक्त - मृगारः
देवता - वायुः, सविता
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
प्र सु॑म॒तिं स॑वितर्वाय ऊ॒तये॒ मह॑स्वन्तं मत्स॒रं मा॑दयाथः। अ॒र्वाग्वा॒मस्य॑ प्र॒वतो॒ नि य॑च्छतं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठप्र । सु॒ऽम॒तिम् । स॒वि॒त॒: । वा॒यो॒ इति॑ । ऊ॒तये॑ । मह॑स्वन्तम् । म॒त्स॒रम् । मा॒द॒या॒थ॒: ।अ॒र्वाक् । वा॒मस्य॑ । प्र॒ऽवत॑: । नि । य॒च्छ॒त॒म् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.६॥
स्वर रहित मन्त्र
प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः। अर्वाग्वामस्य प्रवतो नि यच्छतं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठप्र । सुऽमतिम् । सवित: । वायो इति । ऊतये । महस्वन्तम् । मत्सरम् । मादयाथ: ।अर्वाक् । वामस्य । प्रऽवत: । नि । यच्छतम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 6
विषय - पवन और सूर्य के गुणों का उपदेश।
पदार्थ -
(सवितः) हे सूर्य ! (वायो) हे वायु ! (ऊतये) हमारी रक्षा के लिये (सुमतिम्) सुमति और (महस्वन्तम्) तेजवाले (मत्सरम्) हर्ष को (प्र) अच्छे प्रकार (मादयाथः) तुम दोनों परिपूर्ण करो। (अर्वाक्) हमारे सन्मुख (प्रवतः) बड़ाईवाले (वामस्य) धन का (नि) नियमपूर्वक (यच्छतम्) तुम दोनों दान करो। (तौ) सो तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥६॥
भावार्थ - मनुष्य सूर्य और वायु के गुणों का यथावत् प्रयोग करके बुद्धि, प्रताप और धन बढ़ा कर आनन्द भोगें ॥६॥
टिप्पणी -
६−(प्र) प्रकर्षेण (सुमतिम्) शोभनां बुद्धिम् (सवितः) हे सूर्य ! (वायो) हे पवन ! (ऊतये) रक्षणाय (महस्वन्तम्) तेजोवन्तम् (मत्सरम्) कृधूमदिभ्यः कित्। उ० ३।७३। इति मदी हर्षे-सरन्। मत्सरः सोमो मन्दतेस्तृप्तिकर्मणो मत्सर इति लोभनामाभिमत्त एनेन धनं भवति-निरु० २।५। हर्षम्। सोमम्। आनन्दरसम् (मादयाथः) मद तृप्तियोगे-चुरादिः। णिच्-लेट्। युवां तर्पयतं पूरयतम् (अर्वाक्) सन्मुखम् (वामस्य) धनस्य (प्रवतः) अ० ३।१।४। प्रकर्षवतः (नि) नियमेन (यच्छतम्) दाण् दाने। पाघ्राध्मा०। पा० ७।६।८८। इति यच्छ आदेशः। दानं कुरुतम्। अन्यत् पूर्ववत् ॥