अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 2
सूक्त - मृगारः
देवता - द्यावापृथिवी
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
प्र॑ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ प्रवृ॑द्धे देवी सुभगे उरूची। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठप्र॒ति॒स्थे इति॑ प्र॒ति॒ऽस्थे । हि । अभ॑वतम् । वसू॑नाम् । प्रवृ॑ध्दे इति॒ प्रऽवृ॑ध्दे । दे॒वी॒ इति॑ । सु॒भगे॒ इति॑ सुऽभगे । उ॒रू॒ची॒ इति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ ।ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.२॥
स्वर रहित मन्त्र
प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठप्रतिस्थे इति प्रतिऽस्थे । हि । अभवतम् । वसूनाम् । प्रवृध्दे इति प्रऽवृध्दे । देवी इति । सुभगे इति सुऽभगे । उरूची इति । द्यावापृथिवी इति । भवतम् । मे । स्योने इति ।ते इति । न: । मुञ्चतम् । अंहस: ॥२६.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 2
विषय - सूर्य और पृथिवी के गुणों का उपदेश।
पदार्थ -
(प्रवृद्धे) हे बड़ी वृद्धिवाली, (देवी) दिव्यस्वरूप (सुभगे) बड़े ऐश्वर्यवाली, (उरूची) बहुत पदार्थ प्राप्त करानेवाली तुम दोनों (हि) ही (वसूनाम्) धनों की (प्रतिष्ठे) आधार (अभवतम्) हुई हो। (द्यावापृथिवी) हे सूर्य और पृथिवी ! तुम दोनों (मे) मेरे लिये (स्योने) सुखवती (भवतम्) होओ। (ते) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥२॥
भावार्थ - मनुष्य सूर्य और पृथिवी के विज्ञान से अनेक ऐश्वर्य प्राप्त करके सुखी रहें ॥२॥
टिप्पणी -
२−(प्रतिष्ठे) म० १। आधारभूते (हि) अवश्यम् (अभवतम्) (वसूनाम्) धनानाम् (प्रवृद्धे) हे प्रकर्षेण वृद्धियुक्ते (देवी) हे देव्यौ दिव्यस्वरूपे (सुभगे) हे शोभनैश्वर्ये (उरूची) अ० ३।३।१। उरवो बहवः पदार्था अञ्चन्ति गच्छन्ति प्राप्नुवन्ति याभ्यां सकाशात् ते उरूच्यौ। बहुपदार्थप्रापिके (द्यावापृथिवी) हे सूर्यभूलोकौ ! भवतम् (मे) मह्यम् (स्योने) अ० १।३३।१। सुखवत्यौ। अन्यत् पूर्ववत् ॥