अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 2
सूक्त - अथर्वा
देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रदेवी सुक्त
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम्। तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तः ॥
स्वर सहित पद पाठअ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् । ताम् । मा॒ । दे॒वा: । वि । अ॒द॒धु॒: । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्त: ॥३०.२॥
स्वर रहित मन्त्र
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्। तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥
स्वर रहित पद पाठअहम् । राष्ट्री । सम्ऽगमनी । वसूनाम् । चिकितुषी । प्रथमा । यज्ञियानाम् । ताम् । मा । देवा: । वि । अदधु: । पुरुऽत्रा । भूरिऽस्थात्राम् । भूरि । आऽवेशयन्त: ॥३०.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 2
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(अहम्) मैं (वसूनाम्) धनों की (संगमनी) पहुँचानेवाली और (यज्ञियानाम्) संगतियोग्य पूजनीय विषयों की (चिकितुषी) जाननेवाली (प्रथमा) पहिली (राष्ट्री) नियम करनेवाली शक्ति हूँ। (देवाः) विद्वानों ने (पुरुत्रा) बहुत प्रकारों से (भूरिस्थात्राम्) अनेक पदार्थों में ठहरी हुई (ताम् मा) उस मुझ को (भूरि) अनेकविध से (आवेशयन्तः) [अपने आत्मा में] प्रवेश कराके (व्यदधुः) विविध प्रकार धारण किया है ॥२॥
भावार्थ - अनादि, अनन्त, सर्वज्ञ, सर्वपोषक, सर्वनियन्ता परमेश्वर सब स्थूल और सूक्ष्म पदार्थों में विद्यमान है। विद्वान् लोग ही उसकी अपार महिमा का अनुभव करते हैं ॥२॥
टिप्पणी -
२−(अहम्) परमेश्वरः। (राष्ट्री) अ० ४।१।५। राज्ञी। नियन्त्री शक्तिः (संगमनी) सन्+गम्लृ-ल्युट्। ङीप्। संगमयित्री प्रापयित्री (चिकितुषी) कित ज्ञाने-क्वसु। उगितश्च। पा० ४।१।६। इति ङीप्। ज्ञानवती। प्राप्तज्ञाना (प्रथमा) प्रख्याता मुख्या (यज्ञियानाम्) अ० २।१२।२। यज्ञार्हाणां संगमनीयानां देवानाम् (ताम्) तथाविधाम् (मा) माम्। परमेश्वरम् (देवाः) विद्वांसः (व्यदधुः) धाञो लङि रूपम्। विविधं स्थापितवन्तः (पुरुत्रा) देवमनुष्यपुरुषपुरुमर्त्येभ्यः। पा० ५।४।५६। इति सप्तम्यर्थे−त्रा। बहुषु प्रकारेषु (भूरिस्थात्राम्) अदिशदिभू०। उ० ४।६। इति भू-क्रिन्। भूरि बहु-निघ० ३।१। दादिभ्यश्छन्दसि। उ० ४।१७०। इति ष्ठा-त्रिन्। बहुपदार्थेषु कृतावस्थानाम् (भूरि) अनेकधा (आवेशयन्तः) विश, णिच्-शतृ। प्रवेशयन्तः स्वात्मानं प्रति ॥