अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 5
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - जगती
सूक्तम् - सेनानिरीक्षण सूक्त
वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वोस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह। प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥
स्वर सहित पद पाठवि॒जे॒ष॒ऽकृत् । इन्द्र॑:ऽइव । अ॒न॒व॒ऽब्र॒व: । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपा: । भ॒व॒ । इ॒ह । प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यत॑: । आ॒ऽब॒भूथ॑ ॥३१.५॥
स्वर रहित मन्त्र
विजेषकृदिन्द्र इवानवब्रवोस्माकं मन्यो अधिपा भवेह। प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥
स्वर रहित पद पाठविजेषऽकृत् । इन्द्र:ऽइव । अनवऽब्रव: । अस्माकम् । मन्यो इति । अधिऽपा: । भव । इह । प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यत: । आऽबभूथ ॥३१.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 5
विषय - संग्राम में जय पाने का उपदेश।
पदार्थ -
(मन्यो) हे क्रोध ! (अनवब्रवः) नीच वचन न बोलनेवाला, (विजेषकृत्) विजय करनेवाला तू (इन्द्रः इव) बड़े प्रतापी पुरुष के समान (इह) यहाँ पर (अस्माकम्) हमारा (अधिपाः) बड़ा स्वामी (भव) हो। (सहुरे) हे शक्तिमान् (ते) तेरा (प्रियम्) प्रिय (नाम) नाम (गृणीमसि) हम सराहते हैं। (तम्) उस (उत्सम्) स्रोता [परमेश्वर को] (विद्म) हम जानते हैं (यतः) जिससे (आबभूथ) तू आकर प्रकट हुआ है ॥५॥
भावार्थ - जो मनुष्य अदीन वचन बोलते हैं, वे ही विजयी होकर कीर्त्ति पाते हैं ॥५॥
टिप्पणी -
५−(विजेषकृत्) वृतॄवदि०। उ० ३।६२। इति जि जये-स। विजेषस्य विजयस्य कर्ता (इन्द्रः इव) प्रतापी पुरुषो यथा (अनवब्रवः) अन्+अव+ब्रूञ् व्यक्तायां वाचि-पचाद्यच्। निपातनात्साधुः। अनवनतवचनः। उन्नतवचनः (अस्माकम्) (मन्यो) हे क्रोध (अधिपाः) पा रक्षणे-विच्। अधिकं पालकः (भव) (इह) अत्र संग्रामे (प्रियम्) प्रीतिकरम् (ते) तव (नाम) (सहुरे) म० २। हे शक्तिमन् (गृणीमसि) गॄ शब्दे। गृणीमः स्तुमः (विद्म) जानीमः (तम्) (उत्सम्) अ० ३।२४।४। निर्झरम्। कूपम्। परमेश्वरमित्यर्थः (यतः) यस्मात्स्थानात् (आ बभूथ) आगत्य प्रादुर्बभूविथ ॥