अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 1
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
ब्रह्मा॑स्य शी॒र्षं बृ॒हद॑स्य पृ॒ष्ठं वा॑मदे॒व्यमु॒दर॑मोद॒नस्य॑। छन्दां॑सि प॒क्षौ मुख॑मस्य स॒त्यं वि॑ष्टा॒री जा॒तस्तप॑सोऽधि य॒ज्ञः ॥
स्वर सहित पद पाठब्रह्म॑ । अ॒स्य॒ । शी॒र्षम् । बृ॒हत् । अ॒स्य॒ । पृ॒ष्ठम् । वा॒म॒ऽदे॒व्यम् । उ॒दर॑म् । ओ॒द॒नस्य॑ । छन्दां॑सि । प॒क्षौ । मुख॑म् । अ॒स्य॒ । स॒त्यम् । वि॒ष्टा॒री । जा॒त: । तप॑स: । अधि॑ । य॒ज्ञ: ॥३४.१॥
स्वर रहित मन्त्र
ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य। छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥
स्वर रहित पद पाठब्रह्म । अस्य । शीर्षम् । बृहत् । अस्य । पृष्ठम् । वामऽदेव्यम् । उदरम् । ओदनस्य । छन्दांसि । पक्षौ । मुखम् । अस्य । सत्यम् । विष्टारी । जात: । तपस: । अधि । यज्ञ: ॥३४.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 1
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(अस्य) इस (ओदनस्य) सेचनसमर्थ अन्नरूप परमेश्वर का (शीर्षम्) शिर (ब्रह्म) वेद है, (अस्य) इसकी (पृष्ठम्) पीठ (बृहत्) प्रवृद्ध जगत् और (उदरम्) उदर (वामदेव्यम्) मनोहर परमात्मा से जताया गया [भूतपञ्चक] है। (अस्य) इसके (पक्षौ) दोनों पार्श्व (छन्दांसि) आनन्दप्रद वा पूजनीय कर्म और (मुखम्) मुख (सत्यम्) सत्य है। (विष्टारी) वह विस्तारवाला (यज्ञः) पूजनीय परमात्मा (तपसः) अपने ऐश्वर्य से (अधि) सबसे ऊपर (जातः) प्रकट हुआ है ॥१॥
भावार्थ - परमेश्वर सर्वशक्तिमान् सर्वव्यापक और सर्वान्तर्यामी है, उसकी उपासना सब मनुष्य नित्य करें ॥१॥
टिप्पणी -
१−(ब्रह्म) वेदः (अस्य) प्रत्यक्षस्य (शीर्षम्) शिरः (बृहत्) प्रवृद्धं जगत् (पृष्ठम्) पृष्ठभागः (वामदेव्यम्) वामदेवाड् ड्यड्ड्यौ। पा० ४।२।९। इति वामदेव−ड्य। वामदेवेन दृष्टं विज्ञातं विज्ञापितं वा-इति दयानन्दभाष्ये यजु० १२।४। वामो वल्गुरेव देवः, वामदेवः, परमेश्वरः, तेन विज्ञापितं भूतपञ्चकम् (उदरम्) उदरस्थानीयम् (ओदनस्य) अ० ४।१४।७। सेचनशीलस्य प्रवर्धकस्य अन्नरूपस्य वा परमात्मनः (छन्दांसि) चन्देरादेश्च छः। उ० ४।२१९। इति चदि आह्लादने-असुन्, चस्य छः। छन्दति, अर्चतिकर्मा-निघ० ३।१४। छन्दांसि छादनात्-निरु० ७।१२। आह्लादकर्माणि। अर्चनीय-कर्माणि (पक्षौ) पक्ष परिग्रहे-अच्। पार्श्वौ (मुखम्) (सत्यम्) याथार्थ्यम् (विष्टारी) अत इनिठनौ। पा० ५।२।११५। इति विस्तार-इनि। विस्तारवान् (जातः) प्रादुर्भूतः (तपसः) स्वैश्वर्यात् (अधि) उपरि (यज्ञः) यजनीयः। ओदनः। परमेश्वरः ॥