अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 7
सूक्त - चातनः
देवता - सत्यौजा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - सत्यौजा अग्नि सूक्त
न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैर्न व॑न॒र्गुभिः॑। पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे ॥
स्वर सहित पद पाठन । पि॒शा॒चै: । सम् । श॒क्नो॒मि॒ । न । स्ते॒नै: । न । व॒न॒र्गुऽभि॑: ।पि॒शा॒चा: । तस्मा॑त् । न॒श्य॒न्ति॒ । यम् । अ॒हम् । ग्राम॑म् । आ॒ऽवि॒शे ॥३६.७॥
स्वर रहित मन्त्र
न पिशाचैः सं शक्नोमि न स्तेनैर्न वनर्गुभिः। पिशाचास्तस्मान्नश्यन्ति यमहं ग्राममाविशे ॥
स्वर रहित पद पाठन । पिशाचै: । सम् । शक्नोमि । न । स्तेनै: । न । वनर्गुऽभि: ।पिशाचा: । तस्मात् । नश्यन्ति । यम् । अहम् । ग्रामम् । आऽविशे ॥३६.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 7
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(न) न तो (पिशाचैः) पिशाचों के साथ, (न) न (स्तेनैः) चोरों के साथ, और (न) न (वनर्गुभिः) वनचर डाकुओं के साथ (सम् शक्नोमि) रह सकता हूँ। (यम्) जिस (ग्रामम्) ग्राम में (अहम्) मैं (आविशे) घुसता हूँ, (पिशाचाः) पिशाच लोग (तस्मात्) उस स्थान से (नश्यन्ति) भाग जाते हैं ॥७॥
भावार्थ - राजा प्रबन्ध करे कि बस्तियों में हिंसक चोर आदि लूट-खसोट न करें ॥७॥
टिप्पणी -
७−(न) निषेधे (पिशाचैः) पिशिताशिभिः (सम्) संवस्तुम् (शक्नोमि) शक्तो भवामि (स्तेनैः) चौरैः (वनर्गुभिः) मृगय्वादयश्च। उ० १।३७। इति वन+गम्लृ गतौ-डु रुडागमः। स्तेननाम-निघ० ३।२४। वनर्गू वनगामिनौ-निरु० ३।१४। वनचरैः। दस्युभिः (पिशाचाः) पिशिताशनाः (तस्मात्) ग्रामात् (नश्यन्ति) अदृष्टा भवन्ति पलायन्ते (यम्) (अहम्) (ग्रामम्) अ० ४।७।५। वसतिम् (आविशे) प्रविशामि ॥