अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 3
सूक्त - बादरायणिः
देवता - अप्सराः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - वाजिनीवान् ऋषभ सूक्त
यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्। सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑। सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ॥
स्वर सहित पद पाठया । अयै॑: । प॒रि॒ऽनृत्य॑ति । आ॒ऽददा॑ना । कृ॒तम् । ग्लहा॑त् । सा । न॒: । कृ॒तानि॑ । सी॒ष॒ती । प्र॒ऽहाम् । आ॒प्नो॒तु॒ । मा॒यया॑ । सा । न॒: । पय॑स्वती । आ । ए॒तु॒ । मा । न॒: । जै॒षु॒ । इ॒दम् । धन॑म् ॥३८.३॥
स्वर रहित मन्त्र
यायैः परिनृत्यत्याददाना कृतं ग्लहात्। सा नः कृतानि सीषती प्रहामाप्नोतु मायया। सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥
स्वर रहित पद पाठया । अयै: । परिऽनृत्यति । आऽददाना । कृतम् । ग्लहात् । सा । न: । कृतानि । सीषती । प्रऽहाम् । आप्नोतु । मायया । सा । न: । पयस्वती । आ । एतु । मा । न: । जैषु । इदम् । धनम् ॥३८.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 3
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(या) जो शक्ति (अयैः) मङ्गल अनुष्ठानों के साथ (ग्लहात्) [अपने] अनुग्रह से (कृतम्) कर्म (आददाना) स्वीकार करती हुयी (परिनृत्यति) सब ओर चेष्टा करती है। (सा) वही (नः) हमारे (कृतानि) कर्मों को (मायया) बुद्धि के साथ (सीषती) नियमबद्ध चाहती हुयी (प्रहाम्) उत्तम गति (आप्नोतु) प्राप्त करे [अर्थात् प्रसन्न हो] (सा) वही (नः) हमारे लिये (पयस्वती) अन्नवाली होकर (ऐतु) आवे। (नः) हमारे (इदम्) इस (धनम्) धन को [शत्रु लोग] (मा जैषुः) न जीतें ॥३॥
भावार्थ - मनुष्य परमेश्वर की शक्तियों को जानकर पुष्कल अन्न आदि पदार्थ प्राप्त करके बलवान् हों ॥३॥
टिप्पणी -
३−(या) (अयैः) एति सुखमनेन, इण् गतौ-अच्। अयः शुभावहे विधिः-इत्यमरः। ४।२७। शुभावहैर्विधिभिः। मङ्गलानुष्ठानैः (परिनृत्यति) सर्वत्र चेष्टते (आददाना) स्वीकुर्वाणा (कृतम्) कर्म (ग्लहात्) स्वानुग्रहात् (सा) (नः) अस्माकम् (कृतानि) कर्माणि (सीषती) षिञ् बन्धने-सनि, शतरि छान्दसं रूपम्। सिषीषन्ती। बन्धुं नियन्तुम् इच्छन्ती (प्रहाम्) प्र+ओहाङ् गतौ-क, टाप्। प्रकृष्टां गतिम् (आप्नोतु) प्राप्नोतु (मायया) प्रज्ञया-निघ० ३।९। (नः) अस्मभ्यम् (पयस्वती) पयः=अन्नम्-निघ० २।७। अन्नवती (ऐतु) आगच्छतु (नः) अस्माकम् (मा जैषुः) जि जये माङि लुङि रूपम्। न जयन्तु। माप हार्षुः शत्रवः (इदम्) (धनम्) वित्तम् ॥