अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 1
सूक्त - गरुत्मान्
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषनाशन सूक्त
वारि॒दम्वा॑रयातै वर॒णाव॑त्या॒मधि॑। तत्रा॒मृत॒स्यासि॑क्तं॒ तेना॑ ते वारये वि॒षम् ॥
स्वर सहित पद पाठवा: । इ॒दम् । वा॒र॒या॒तै॒ । व॒र॒णऽव॑त्याम् । अधि॑ । तत्र॑ । अ॒मृत॑स्य । आऽसि॑क्तम् । तेन॑ । ते॒ । वा॒र॒ये॒ । वि॒षम् ॥७.१॥
स्वर रहित मन्त्र
वारिदम्वारयातै वरणावत्यामधि। तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥
स्वर रहित पद पाठवा: । इदम् । वारयातै । वरणऽवत्याम् । अधि । तत्र । अमृतस्य । आऽसिक्तम् । तेन । ते । वारये । विषम् ॥७.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 1
विषय - विष नाश करने का उपदेश।
पदार्थ -
(वरणावत्याम् अधि) उत्तम गुणवाली क्रिया में [अथवा वरुण नामवाली ओषधि में] वर्तमान (इदम्) यह (वाः) जल (वारयातै) [विष को] हटावे। (तत्र) उस [जल] में (अमृतस्य) अमृत अर्थात् स्वास्थ्य का (आसिक्तम्) रस है। (तेन) उस [जल] से (ते विषम्) तेरे विष को (वारये) मैं हटाता हूँ ॥१॥
भावार्थ - १-यथावत् क्रिया से किये हुए जल के अभिषेक आदि से और २-वरुण नाम औषध के रसप्रयोग से विष और विषजनक रोगों की निवृत्ति होती है ॥१॥
टिप्पणी -
१−(वाः) अ० ३।१३।३। वारि। जलम् (इदम्) (वारयातै) वारयतेर्लेटि आडागमः। निवारयतु विषम् (वरणावत्याम्) सुयुरुवृञो युच्। उ० २।७४। इति वृञ् वरणे-युच्। शरादीनां च। पा० ६।३।१२०। इति मतौ पूर्वपदस्य दीर्घः। वरणीयगुणयुक्तायां क्रियायाम्। अथवा वरणो वरुणो वृक्षविशेषः। वरुणरसवत्याम् ओषधौ वर्तमानम्। वरुणस्य गुणाः। कटुत्वम्, उष्णत्वम्, रक्तदोषशीतवातहरत्वम्, स्निग्धत्वम्, दीपनत्वं च-इति शब्दकल्पद्रुमात् (अधि) सप्तम्यर्थानुवादी (तत्र) तस्मिन् जले (अमृतस्य) अमरणस्य, स्वास्थ्यस्य (आसिक्तम्) षिच क्षरणे-भावे क्त। आसेचनम्। समन्ताद् वर्षणम्। रसः (तेन) उदकेन (वारये) अहं निवारयामि (विषम्) विषप्रभावम् ॥