अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषनाशन सूक्त
अ॑र॒सं प्रा॒च्यं॑ वि॒षम॑र॒सं यदु॑दी॒च्य॑म्। अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ॥
स्वर सहित पद पाठअ॒र॒सम् । प्रा॒च्य᳡म् । वि॒षम् । अ॒र॒सम् । यत् । उ॒दी॒च्य᳡म् । अथ॑ । इ॒दम् । अ॒ध॒रा॒च्य᳡म् । क॒र॒म्भेण॑ । वि । क॒ल्प॒ते॒ ॥७.२॥
स्वर रहित मन्त्र
अरसं प्राच्यं विषमरसं यदुदीच्यम्। अथेदमधराच्यं करम्भेण वि कल्पते ॥
स्वर रहित पद पाठअरसम् । प्राच्यम् । विषम् । अरसम् । यत् । उदीच्यम् । अथ । इदम् । अधराच्यम् । करम्भेण । वि । कल्पते ॥७.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 2
विषय - विष नाश करने का उपदेश।
पदार्थ -
(प्राच्यम्) पूर्व वा सन्मुख दिशा का (विषम्) विष (अरसम्) अरस होवे, और (यत्) जो (उदीच्यम्) उत्तर वा बायीं दिशा में हैं [वह भी] (अरसम्) अरस होवे। (अथ) और (इदम्) यह (अधराच्यम्) नीचे की दिशा का [विष] (करम्भेण) जलसेचन से [वा दही मिले सत्तुओं से] (विकल्पते) असमर्थ हो जाता है ॥२॥
भावार्थ - चिकित्सक लोग विष और विषैले रोगों को यथावत् जलसेचन से अथवा सत्तुओं के प्रयोग से हटावें ॥२॥ (करम्भ) शब्द का अर्थ जलक्रिया वा जलसेचन का और दही सत्तुओं का है [करम्भो दधिसक्तवः-इत्यमरः, १९, ४८] ॥
टिप्पणी -
२−(अरसम्) नीरसम्। निष्प्रभावम्, भवतु (प्राच्यम्)) द्युप्रागपागुदक्प्रतीचो यत्। पा० ४।२।१०१। इति प्राच्-यत्। पूर्वोद्भवम् (स्वाभिमुखदिशि भवम्) (यत्) यद् विषमस्ति तदपि (उदीच्यम्) उदच्-यत् पूर्ववत्। उत्तरदिशि भवम् वामदिशि भवम् (अथ) अनन्तरम् (इदम्) (अधराच्यम्) अधराच्-यत्। अधस्ताद् वर्तमानायां दिशि भवम्। (करम्भेण) अकर्तरि च कारके संज्ञायाम्। पा० ३।३।१९। इति क+रभि शब्दे, अत्र सेके-घञ्। रभेरश्च लिटोः। पा० ७।१।६३। इति नुम्। केन जलेन रभ्यते सिच्यते मिश्रीक्रियते वा स करम्भः तेन, जलसेचनकर्मणा। यद्वा दधिमिश्रितशक्तुभिः (विकल्पते) कृपू सामर्थ्ये। कृपो रो लः। पा० ८।२।१८। इति लत्वम्। विगतसामर्थ्यं भवति ॥