Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 1/ मन्त्र 2
सूक्त - अथर्वा
देवता - सविता
छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्
सूक्तम् - अमृतप्रदाता सूक्त
तमु॑ ष्टुहि॒ यो अ॒न्तः सिन्धौ॑ सू॒नुः स॒त्यस्य॒ युवा॑न॒म्। अद्रो॑घवाचं सु॒शेव॑म् ॥
स्वर सहित पद पाठतम् । ऊं॒ इति॑ । स्तु॒हि॒ । य: । अ॒न्त: । सिन्धौ॑ । सू॒नु: । स॒त्यस्य॑ । युवा॑नम् । अद्रो॑घऽवाचम् । सु॒ऽशेव॑म् ॥१.२॥
स्वर रहित मन्त्र
तमु ष्टुहि यो अन्तः सिन्धौ सूनुः सत्यस्य युवानम्। अद्रोघवाचं सुशेवम् ॥
स्वर रहित पद पाठतम् । ऊं इति । स्तुहि । य: । अन्त: । सिन्धौ । सूनु: । सत्यस्य । युवानम् । अद्रोघऽवाचम् । सुऽशेवम् ॥१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 1; मन्त्र » 2
विषय - ऐश्वर्य की प्राप्ति के लिये उपदेश।
पदार्थ -
(यः) जो (सत्यस्य) सत्य का (सूनुः) प्रेरक परमात्मा (सिन्धौ अन्तः) समुद्र [हृदय आदि गहरे स्थान] के भीतर है, (तम् उ) उस ही (युवानम्) संयोग वियोग करनेवाले, अथवा महाबली, (अद्रोघवाचम्) द्रोहरहित वाणीवाले, (सुशेवम्) अत्यन्त सुख देनेवाले परमेश्वर की (स्तुहि) स्तुति कर ॥२॥
भावार्थ - जो सर्वव्यापक परमात्मा कल्याण वाणी वेदविद्या द्वारा दुःखों को हटा कर मोक्ष पद देता है, उसकी महिमा जान कर मनुष्य सदा पुरुषार्थ करे ॥२॥
टिप्पणी -
२−(तम्) प्रसिद्धम् (उ) एव (स्तुहि) प्रशंस (यः) परमात्मा (अन्तः) मध्ये (सिन्धौ) स्यन्दनशीले समुद्रे, हृदयादिगम्भीरदेशे (सूनुः) सुवः कित्। उ० ३।३५। इति षू प्रेरणे−नु। प्रेरकः (सत्यस्य) यथार्थस्य वेदज्ञानस्य (युवानम्) कनिन् युवृषितक्षि०। उ० १।१५६। इति यु मिश्रणामिश्रणयोः−कनिन्। संयोजकवियोजकम्। बलवन्तम् (अद्रोघवाचम्) द्रुह जिघांसायाम्−घञ्, हस्य घः। द्रोहरहितवाग्युक्तम्। कल्याणवाणिं परमेश्वरम् (सुशेवम्) अ० ४।२५।५। अतिशयेन सुखकरम् ॥