Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 1 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 1/ मन्त्र 2
    सूक्त - अथर्वा देवता - सविता छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक् सूक्तम् - अमृतप्रदाता सूक्त
    40

    तमु॑ ष्टुहि॒ यो अ॒न्तः सिन्धौ॑ सू॒नुः स॒त्यस्य॒ युवा॑न॒म्। अद्रो॑घवाचं सु॒शेव॑म् ॥

    स्वर सहित पद पाठ

    तम् । ऊं॒ इति॑ । स्तु॒हि॒ । य: । अ॒न्त: । सिन्धौ॑ । सू॒नु: । स॒त्यस्य॑ । युवा॑नम् । अद्रो॑घऽवाचम् । सु॒ऽशेव॑म् ॥१.२॥

    स्वर रहित मन्त्र

    तमु ष्टुहि यो अन्तः सिन्धौ सूनुः सत्यस्य युवानम्। अद्रोघवाचं सुशेवम् ॥

    स्वर रहित पद पाठ

    तम् । ऊं इति । स्तुहि । य: । अन्त: । सिन्धौ । सूनु: । सत्यस्य । युवानम् । अद्रोघऽवाचम् । सुऽशेवम् ॥१.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 1; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    ऐश्वर्य की प्राप्ति के लिये उपदेश।

    पदार्थ

    (यः) जो (सत्यस्य) सत्य का (सूनुः) प्रेरक परमात्मा (सिन्धौ अन्तः) समुद्र [हृदय आदि गहरे स्थान] के भीतर है, (तम् उ) उस ही (युवानम्) संयोग वियोग करनेवाले, अथवा महाबली, (अद्रोघवाचम्) द्रोहरहित वाणीवाले, (सुशेवम्) अत्यन्त सुख देनेवाले परमेश्वर की (स्तुहि) स्तुति कर ॥२॥

    भावार्थ

    जो सर्वव्यापक परमात्मा कल्याण वाणी वेदविद्या द्वारा दुःखों को हटा कर मोक्ष पद देता है, उसकी महिमा जान कर मनुष्य सदा पुरुषार्थ करे ॥२॥

    टिप्पणी

    २−(तम्) प्रसिद्धम् (उ) एव (स्तुहि) प्रशंस (यः) परमात्मा (अन्तः) मध्ये (सिन्धौ) स्यन्दनशीले समुद्रे, हृदयादिगम्भीरदेशे (सूनुः) सुवः कित्। उ० ३।३५। इति षू प्रेरणे−नु। प्रेरकः (सत्यस्य) यथार्थस्य वेदज्ञानस्य (युवानम्) कनिन् युवृषितक्षि०। उ० १।१५६। इति यु मिश्रणामिश्रणयोः−कनिन्। संयोजकवियोजकम्। बलवन्तम् (अद्रोघवाचम्) द्रुह जिघांसायाम्−घञ्, हस्य घः। द्रोहरहितवाग्युक्तम्। कल्याणवाणिं परमेश्वरम् (सुशेवम्) अ० ४।२५।५। अतिशयेन सुखकरम् ॥

    इंग्लिश (1)

    Subject

    Lord of Immortality

    Meaning

    Worship that who rolls in the sea and vibrates in the depth of the heart, inspiring, exalting, life giving, eternal youthful, integrating, disintegrating and re¬ integrating the world of truth and reality, original source of the word of love free from jealousy and negativity, sole lord worthy of worship and service.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top