Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 111/ मन्त्र 2
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - उन्मत्ततामोचन सूक्त
अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्यु॑तम्। कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तोऽस॑सि ॥
स्वर सहित पद पाठअ॒ग्नि: । ते॒ । नि । श॒म॒य॒तु॒ । यदि॑ । ते॒ ।मन॑: । उत्ऽयु॑तम् । कृ॒णोमि॑। वि॒द्वान् । भे॒ष॒जम् । यथा॑ । अनु॑त्ऽमदित: । अस॑सि ॥१११.२॥
स्वर रहित मन्त्र
अग्निष्टे नि शमयतु यदि ते मन उद्युतम्। कृणोमि विद्वान्भेषजं यथानुन्मदितोऽससि ॥
स्वर रहित पद पाठअग्नि: । ते । नि । शमयतु । यदि । ते ।मन: । उत्ऽयुतम् । कृणोमि। विद्वान् । भेषजम् । यथा । अनुत्ऽमदित: । अससि ॥१११.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 111; मन्त्र » 2
विषय - मानसविकार के नाश का उपदेश।
पदार्थ -
(अग्निः) विद्वान् पुरुष (ते) तेरे [मन को] (नि शमयतु) शान्त करता रहे, (यदि) जब (ते मनः) तेरा मन (उद्युतम्) व्याकुल होवे। (विद्वान्) विद्वान् मैं (भेषजम्) औषध (कृणोमि) करता हूँ, (यथा) जिससे तू (अनुन्मदितः) उन्मादरहित (अससि) होवे ॥२॥
भावार्थ - मनुष्य विद्वानों से शिक्षा पाकर अपनी रोगनिवृत्ति करे ॥२॥
टिप्पणी -
२−(अग्निः) विद्वान् पुरुषः (ते) तव (मनः) (नि शमयतु) नितरां शान्तं करोतु (यदि) सम्भावनायाम् (ते मनः) (उद्युतम्) युञ् बन्धने−क्त। उद्विग्नम् (कृणोमि) करोमि (विद्वान्) विज्ञोऽहम् (भेषजम्) औषधम् (यथा) येन प्रकारेण (अनुन्मदितः) चित्तभ्रमरहितः (अससि) भूयाः ॥