Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 111/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - परानुष्टुप्त्रिष्टुप्
सूक्तम् - उन्मत्ततामोचन सूक्त
इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति। अतोऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तोऽस॑ति ॥
स्वर सहित पद पाठइ॒मम् । मे॒ । अ॒ग्ने॒ । पुरु॑षम् । मु॒मु॒ग्धि॒ । अ॒यम् । य: । ब॒ध्द: । सुऽय॑त: । लाल॑पीति ।अत॑: । अधि॑ । ते॒ । कृ॒ण॒व॒त् । भा॒ग॒ऽधेय॑म् । य॒दा । अनु॑त्ऽमदित: । अस॑ति ॥१११.१॥
स्वर रहित मन्त्र
इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति। अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥
स्वर रहित पद पाठइमम् । मे । अग्ने । पुरुषम् । मुमुग्धि । अयम् । य: । बध्द: । सुऽयत: । लालपीति ।अत: । अधि । ते । कृणवत् । भागऽधेयम् । यदा । अनुत्ऽमदित: । असति ॥१११.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 111; मन्त्र » 1
विषय - मानसविकार के नाश का उपदेश।
पदार्थ -
(अग्ने) हे विद्वान् पुरुष ! (मे) मेरे लिये (इमम् पुरुषम्) इस पुरुष को [आत्मा को] (मुमुग्धि) मुक्त कर, (अयम् यः) यह जो [जीव] (बद्धः) बँधा हुआ और (सुयतः) बहुत जकड़ा हुआ (लालपीति) अत्यन्त बर्बराता है। (अतः) फिर यह (ते) तेरे (भागधेयम्) सेवनीय भाग को (अधि) अधिकारपूर्वक (कृणवत्) करे, (यदा) जब वह (अनुन्मदितः) उन्मादरहित (असति) हो जावे ॥१॥
भावार्थ - मनुष्य विद्वानों के सत्सङ्ग से दुष्टकर्म छोड़ कर सावधान होकर धार्मिक कर्म करे ॥१॥
टिप्पणी -
१−(इमम्) समीपस्थम् (मे) मह्यम् (अग्ने) विद्वन् (पुरुषम्) आत्मानम् (मुमुग्धि) मोचय (अयम्) (यः) (बद्धः) बन्धं गतः (सुयतः) यम उपरमे−क्त। दृढप्रतिरुद्धः (लालपीति) भृशं प्रलपति (अतः) मोचनानन्तरम् (अधि) अधिकृत्य (ते) तव (कृणवत्) कुर्य्यात् (भागधेयम्) सेवनीयं कर्म (यदा) (अनुन्मदितः) अनुन्मत्तः उन्मादरहितः (असति) भवेत् ॥