Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 117/ मन्त्र 2
इ॒हैव सन्तः॒ प्रति॑ दद्म एनज्जी॒वा जी॒वेभ्यो॒ नि ह॑राम एनत्। अ॑प॒मित्य॑ धा॒न्य यज्ज॒घसा॒हमि॒दं तद॑ग्ने अनृ॒णो भ॑वामि ॥
स्वर सहित पद पाठइ॒ह । ए॒व । सन्त॑: । प्रति॑ । द॒द्म॒: । ए॒न॒त् । जी॒वा: । जी॒वेभ्य॑: । नि । ह॒रा॒म॒: । ए॒न॒त् । अ॒प॒ऽमित्य॑ । धा॒न्य᳡म् । यत् । ज॒घस॑ । अ॒हम् । इ॒दम् । तत् । अ॒ग्ने॒। अ॒नृ॒ण: । भ॒वा॒मि॒ ॥११७.२॥
स्वर रहित मन्त्र
इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्। अपमित्य धान्य यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥
स्वर रहित पद पाठइह । एव । सन्त: । प्रति । दद्म: । एनत् । जीवा: । जीवेभ्य: । नि । हराम: । एनत् । अपऽमित्य । धान्यम् । यत् । जघस । अहम् । इदम् । तत् । अग्ने। अनृण: । भवामि ॥११७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 117; मन्त्र » 2
विषय - ऋण से छूटने का उपदेश।
पदार्थ -
(इह) यहाँ [इस शरीर में] (एव) ही (सन्तः) रहते हुए हम (एनत्) इस [ऋण] को (प्रति दद्मः) चुका देवें, (जीवाः) जीते हुए हम (जीवेभ्यः) जीते हुए पुरुषों को (एनत्) यह [उधार] (नि) नियम से (हरामः) दे देवें। (यत्) जो (धान्यम्) धान्य (अपमित्य) उधार लेकर (अहम्) मैंने (जघस) खाया है, (अग्ने) हे विद्वान् ! (इदम्) अभी (तत्) उससे मैं (अनृणः) अऋण (भवामि) हो जाऊँ ॥२॥
भावार्थ - मनुष्य संसार के सब जीवों का उपकार अपने पर विचार कर अपने और उनके जीवन में ही यथोचित सेवा से उनका ऋण चुकावे ॥२॥
टिप्पणी -
२−(इह) अस्मिन् शरीरे (एव) (सन्तः) विद्यमाना वयम् (प्रति दद्मः) प्रत्यर्पयामः (एनत्) ऋणम् (जीवाः) जीवन्तो वयम् (नि) नियमेन (हरामः) प्रापयामः (एनत्) ऋणम् (अपमित्य) उदीचां माङो व्यतीहारे। पा० ३।४।१९। इति मेङ् प्रणिदाने−क्त्वा, ल्यबादेशे। मयतेरिदन्यतरस्याम् पा० ६।१।७१। इति। तुक्। ऋणे गृहीत्वा (धान्यम्) अन्नम् (जघस) अद भक्षणे, लिटि घस्लृ आदेशः। भक्षितवानस्मि (अहम्) (इदम्) इदानीम् (तत्) तस्मात् (अग्ने) विद्वन् (अनृणः) ऋणरहितः (भवामि) ॥