Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 124/ मन्त्र 2
सूक्त - अथर्वा
देवता - दिव्या आपः
छन्दः - त्रिष्टुप्
सूक्तम् - निर्ऋत्यपस्तरण सूक्त
यदि॑ वृ॒क्षाद॒भ्यप॑प्त॒त्पलं॒ तद्यद्य॒न्तरि॑क्षा॒त्स उ॑ वा॒युरे॒व। यत्रास्पृ॑क्षत्त॒न्वो॒ यच्च॒ वास॑स॒ आपो॑ नुदन्तु॒ निरृ॑तिं परा॒चैः ॥
स्वर सहित पद पाठयदि॑। वृ॒क्षात् । अ॒भि॒ऽअप॑प्तत् ।फल॑म् । तत् । यदि॑ । अ॒न्तरि॑क्षात् । स: । ऊं॒ इति॑ । वा॒यु: । ए॒व । यत्र॑ । अस्पृ॑क्षत् । त॒न्व᳡: । यत् । च॒ । वास॑स: । आप॑: । नु॒द॒न्तु॒ । नि:ऽऋ॑तिम् । प॒रा॒चै: ॥१२४.२॥
स्वर रहित मन्त्र
यदि वृक्षादभ्यपप्तत्पलं तद्यद्यन्तरिक्षात्स उ वायुरेव। यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निरृतिं पराचैः ॥
स्वर रहित पद पाठयदि। वृक्षात् । अभिऽअपप्तत् ।फलम् । तत् । यदि । अन्तरिक्षात् । स: । ऊं इति । वायु: । एव । यत्र । अस्पृक्षत् । तन्व: । यत् । च । वासस: । आप: । नुदन्तु । नि:ऽऋतिम् । पराचै: ॥१२४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 124; मन्त्र » 2
विषय - आत्मा की शुद्धि का उपदेश।
पदार्थ -
(यदि) यदि (वृक्षात्) वृक्ष से (तत् फलम्) वह [अशुद्ध] फल, और (यदि) यदि (अन्तरिक्षात्) आकाश से (सः उ वायुः) वही [अशुद्ध] वायु (एव) वैसे ही (अभ्यपप्तत्) गिर पड़ा है, और (यत्) जिसने (यत्र) जहाँ पर (तन्वः) शरीर का (च) और (वाससः) वस्त्र का (अस्पृक्षत्) स्पर्श किया है, (आपः) जल (निर्ऋतिम्) अलक्ष्मी [अशुद्धि] को (पराचैः) उलटे मुँह (नुदन्तु) हटा देवें ॥२॥
भावार्थ - जैसे अशुद्ध फल वा अशुद्ध वायु से मलिन वस्त्र वा शरीर को जल से शुद्ध करते हैं, वैसे ही मनुष्य दोषों से दूषित आत्मा को यथार्थ ज्ञान से शुद्ध कर लेवें ॥२॥
टिप्पणी -
२−(यदि) (वृक्षात्) (अभ्यपप्तत्) म० १। अभितः पतितम् (फलम्) (तत्) (यदि) (अन्तरिक्षात्) (सः) (उ) अवधारणे (वायुः) (एव) एवं तथा (यत्र) यस्मिन् भागे (अस्पृक्षत्) स्पर्शतेर्लुङि रूपम्। स्पर्शम् अकरोत् (तन्वः) शरीरस्य (यत्) (च) (वाससः) वस्त्रस्य (आपः) जलानि (नुदन्तु) प्रेरयन्तु (निर्ऋतिम्) अ० २।१०।१। अलक्ष्मीम्। अशुद्धिम् (पराचैः) पराङ्मुखीकृत्वा ॥