Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 126/ मन्त्र 3
सूक्त - अथर्वा
देवता - दुन्दुभिः
छन्दः - पुरोबृहती विराड्गर्भा त्रिष्टुप्
सूक्तम् - दुन्दुभि सूक्त
प्रामूं ज॑या॒भी॒मे ज॑यन्तु केतु॒मद्दु॑न्दु॒भिर्वा॑वदीतु। समश्व॑पर्णाः पतन्तु नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥
स्वर सहित पद पाठप्र । अ॒मूम् । ज॒य॒ । अ॒भि । इ॒मे । ज॒य॒न्तु॒ । के॒तु॒ऽमत् । दु॒न्दु॒भि: । वा॒व॒दी॒तु॒। सम् । अश्व॑ऽपर्णा: । प॒त॒न्तु॒ । न॒: । नर॑: ।अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिन॑:। ज॒य॒न्तु॒ ॥१२६.३॥
स्वर रहित मन्त्र
प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु। समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥
स्वर रहित पद पाठप्र । अमूम् । जय । अभि । इमे । जयन्तु । केतुऽमत् । दुन्दुभि: । वावदीतु। सम् । अश्वऽपर्णा: । पतन्तु । न: । नर: ।अस्माकम् । इन्द्र । रथिन:। जयन्तु ॥१२६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 126; मन्त्र » 3
विषय - राजा और सेना के कर्तव्यों का उपदेश।
पदार्थ -
(अमूम्) उस [शत्रुसेना] को (प्र) अच्छे प्रकार (जय) जीत ले, (इमे) यह (केतुमत्) ध्वजा पताकावाले शूर (अभि) सब ओर से (जयन्तु) जीत लेवें, (दुन्दुभिः) ढोल (वावदीति) ऊँचे स्वर से बजता है। (अश्वपर्णाः) घुड़चढ़ों के पक्ष [सेना दल]वाले (नः) हमारे (नरः) नायक लोग (सम्) ठीक रीति से (पतन्तु) धावा करें, (इन्द्र) हे बड़े ऐश्वर्यवाले राजन् ! (अस्माकम्) हमारे (रथिनः) अच्छे-अच्छे रथों पर चढ़े हुए वीर (जयन्तु) जीतें ॥३॥
भावार्थ - राजा अपने शूर वीरों से दुन्दुभि बजा कर घुड़चढ़े सैन्यकों का दल बना कर शत्रुओं पर धावा करके जीत लेवे ॥३॥
टिप्पणी -
३−(प्र) प्रकर्षेण (अमूम्) शत्रुसेनाम् (अभि) सर्वतः (जयन्तु) (केतुमत्) विभक्तेर्लुक्। प्रशस्तध्वजयुक्ताः शूराः (वावदीति) भृशं वदति (सम्) सम्यक् (अश्वपर्णाः) अश्वानामश्ववाराणां पर्णाः पक्षाः पार्श्वा येषां ते (पतन्तु) धावन्तु (नः) अस्माकम् (नरः) नायकाः (अस्माकम्) (इन्द्र) परमैश्वर्यवन् सेनापते (रथिनः) प्रशस्तरथारूढाः शूराः (जयन्तु) ॥