Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 127/ मन्त्र 2
सूक्त - भृग्वङ्गिरा
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - त्र्यसाना षट्पदा जगती
सूक्तम् - यक्ष्मनाशन सूक्त
यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ। वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम् ॥
स्वर सहित पद पाठयौ । ते॒ । ब॒ला॒स॒ । तिष्ठ॑त: । कक्षे॑ । मु॒ष्कौ । अप॑ऽश्रितौ । वेद॑ । अ॒हम् । तस्य॑ । भे॒ष॒जम् । ची॒पुद्रु॑: । अ॒भि॒ऽचक्ष॑णम् ॥१२७.२॥
स्वर रहित मन्त्र
यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ। वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥
स्वर रहित पद पाठयौ । ते । बलास । तिष्ठत: । कक्षे । मुष्कौ । अपऽश्रितौ । वेद । अहम् । तस्य । भेषजम् । चीपुद्रु: । अभिऽचक्षणम् ॥१२७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 127; मन्त्र » 2
विषय - रोग के नाश का उपदेश।
पदार्थ -
(बलास) हे सन्निपात कफ आदि रोग ! (यौ) जो (ते) तेरी (मुष्कौ) दो गिलटिया (कक्षे) [रोगी की] काँख में (अपश्रितौ) आश्रय लिये हुए (तिष्ठतः) स्थित हैं। (अहम्) मैं (तस्य भेषजम्) उसकी ओषधि (वेद) जानता हूँ, (चीपुद्रुः) ग्रहण करने योग्य चीपुद्रु [ओषधि विशेष] (अभिचक्षणम्) औषध है ॥२॥
भावार्थ - वैद्य ज्वर, गिलटी आदि रोगों की यथावत् चिकित्सा करे ॥२॥
टिप्पणी -
२−(यौ) (ते) तव (बलास) म० १। (तिष्ठतः) वर्तेते (कक्षे) रोगिणो बाहुमूले (मुष्कौ) अण्डरूपौ रोगग्रन्थी (अपश्रितौ) आश्रितौ (वेद) जानामि (अहम्) वैद्यः (तस्य) रोगस्य (भेषजम्) (चीपुद्रुः) चीवृ आदानसंवरणयोः−उ, पृषोदरादि। द्रुमविशेषः (अभिचक्षणम्) व्याधिनिवर्तकम् ॥