Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 13/ मन्त्र 3
सूक्त - अथर्वा
देवता - मृत्युः
छन्दः - अनुष्टुप्
सूक्तम् - मृत्युञ्जय सूक्त
नम॑स्ते यातु॒धाने॑भ्यो॒ नम॑स्ते भेष॒जेभ्यः॑। नम॑स्ते मृत्यो॒ मूले॑भ्यो ब्राह्म॒णेभ्य॑ इ॒दं नमः॑ ॥
स्वर सहित पद पाठनम॑: । ते॒ । या॒तु॒ऽधाने॑भ्य: । नम॑: । ते॒ । भे॒ष॒जेभ्य॑: । नम॑: । ते॒ । मृ॒त्यो॒ इति॑ । मूले॑भ्य: । ब्रा॒ह्म॒णेभ्य॑: । इ॒दम् । नम॑: ॥१३.३॥
स्वर रहित मन्त्र
नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः। नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥
स्वर रहित पद पाठनम: । ते । यातुऽधानेभ्य: । नम: । ते । भेषजेभ्य: । नम: । ते । मृत्यो इति । मूलेभ्य: । ब्राह्मणेभ्य: । इदम् । नम: ॥१३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 13; मन्त्र » 3
विषय - मृत्यु की प्रबलता का उपदेश।
पदार्थ -
(ते) तेरे (यातुधानेभ्यः) पीड़ाप्रद रोगों को (नमः) नमस्कार और (ते) तेरे (भेषजेभ्यः) सुख देनेवाले वैद्यों को (नमः) नमस्कार है। (मृत्यो) हे मृत्यु ! (ते) तेरे (मूलेभ्यः) कारणों को (नमः) नमस्कार और (ब्राह्मणेभ्यः) वेदवेत्ता विद्वानों को (इदम्) यह (नमः) नमस्कार है ॥३॥
भावार्थ - रोगी और वैद्य मृत्यु के वश हैं, तो भी मनुष्य रोगों का निदान जानकर पुरुषार्थ करते रहें ॥३॥
टिप्पणी -
३−(नमः) नमस्कारः (ते) तत्र (यातुधानेभ्यः) अ० १।७।१। पीडाप्रदेभ्यो रोगेभ्यः (भेषजेभ्यः) अ० १।४।४। भेषं भयं जयतीति। भेषजं सुखनाम−निघ० ३।६। सुखकरेभ्यो वैद्येभ्यः (मृत्यो) (मूलेभ्यः) मूल प्रतिष्ठायाम्−क। मूलं मोचनाद्वा मोषणाद्वा मोहनाद्वा−निरु० ६।३। कारणेभ्यः। निदानेभ्यः। (ब्राह्मणेभ्यः) वेदविद्भ्यः (इदम्) ॥