Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 29/ मन्त्र 3
सूक्त - भृगु
देवता - यमः, निर्ऋतिः
छन्दः - त्र्यवसाना सप्तदा विराडष्टिः
सूक्तम् - अरिष्टक्षयण सूक्त
अ॑वैरह॒त्याये॒दमा प॑पत्यात्सुवी॒रता॑या इ॒दमा स॑सद्यात्। परा॑ङे॒व परा॑ वद॒ परा॑ची॒मनु॑ सं॒वत॑म्। यथा॑ य॒मस्य॑ त्वा गृ॒हेऽर॒सं प्र॑ति॒चाक॑शाना॒भूकं॑ प्रति॒चाक॑शान् ॥
स्वर सहित पद पाठअ॒वै॒र॒ऽह॒त्याय॑ । इ॒दम्। आ । प॒प॒त्या॒त् । सु॒ऽवी॒रता॑यै । इ॒दम् । आ । स॒स॒द्या॒त् । परा॑ङ् । ए॒व । परा॑ । व॒द॒। परा॑चीम् । अनु॑ । स॒म्ऽवत॑म् । यथा॑ । य॒मस्य॑ । त्वा॒ । गृ॒हे । अ॒र॒सम् । प्र॒ति॒ऽचाक॑शान् । आ॒भूक॑म् । प्र॒ति॒ऽचाक॑शान् ॥२९.३॥
स्वर रहित मन्त्र
अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्। पराङेव परा वद पराचीमनु संवतम्। यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशानाभूकं प्रतिचाकशान् ॥
स्वर रहित पद पाठअवैरऽहत्याय । इदम्। आ । पपत्यात् । सुऽवीरतायै । इदम् । आ । ससद्यात् । पराङ् । एव । परा । वद। पराचीम् । अनु । सम्ऽवतम् । यथा । यमस्य । त्वा । गृहे । अरसम् । प्रतिऽचाकशान् । आभूकम् । प्रतिऽचाकशान् ॥२९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 29; मन्त्र » 3
विषय - शुभ गुण ग्रहण करने का उपदेश।
पदार्थ -
[स्तुति के योग्य कपोत विद्वान्] (अवैरहत्याय) वीरों के न मारने के लिये (इदम्) इस स्थान पर (आ=आगत्य) आकर (पपत्यात्) समर्थ होवे और (सुवीरतायै) बड़े वीरों के हित के लिये (इदम्) इस स्थान पर (आ) आकर (ससद्यात्) बैठे। [हे उल्लू के समान मूर्ख शत्रु !] (पराङ्) औंधे मुख होकर (पराचीम्) अधोगत (संवतम्) संगति की (अनु=अनुलक्ष्य) ओर (परा) दूर होकर (एव) ही (वद) बात कर। (यथा) क्योंकि (यमस्य) न्यायकारी पुरुष के (गृहे) घर में। (त्वा) तुझ को (अरसम्) निर्बल (प्रतिचाकशान्) लोग देखें, और (आभूकम्) असमर्थ (प्रतिचाकशान्) वे देखें ॥३॥
भावार्थ - मनुष्य विद्वान् पुरुषार्थी जन का सहाय लेकर न्यायपूर्वक श्रेष्ठ वीरों की रक्षा और मूर्ख दुराचारियों का नाश करके सुखी रहें ॥३॥
टिप्पणी -
३−(अवैरहत्याय) वीर−अण् समूहार्थे+हन क्यप्। वीराणाम् अहननाय रक्षणाय (इदम्) अस्माकं गृहम् (आ) आगत्य (पपत्यात्) पत ऐश्वर्ये। पत्यताम्। समर्थो भवतु (सुवीरतायै) समूहार्थे तल्। श्रेष्ठवीराणां हिताय (आ) आगत्य (ससद्यात्) सीदतु स कपोतः (पराङ्) अधोमुखः सन् (एव) अवधारणे (परा) दूरे (वेद) कथय, हे उलूक शत्रो (पराचीम्) परा+अञ्चु गतौ−क्विन्, ङीप्। अधोगताम् (अनु) अनुलक्ष्य (संवतम्) उपसर्गाच्छन्दसि०। पा० ५।१।११८। इति गत्यर्थे वतिः। संगतिम् (यथा) यस्मात्कारणात् (यमस्य) न्यायिनः पुरुषस्य (त्वा) त्वाम्। उलूकम् (गृहे) न्यायालये (अरसम्) निर्बलम् (प्रतिचाकशान्) काशृ दीप्तौ, यङ्लुकि−लेट्। अवचाकशत् पश्यतिकर्मा−निघ० ३।११। जनाः प्रतिपश्येयुः (आभूकम्) सृवृभू०। उ० ३।४१। इति आङ् ईषदर्थे+भू−कक्। असमर्थम् (प्रतिचाकशान्) प्रत्यक्षं पश्येयुः ॥