Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 3/ मन्त्र 1
सूक्त - अथर्वा
देवता - इन्द्रापूषणौ, अदितिः, मरुद्गणः, अपांनपात्, सिन्धुसमूहः, विष्णुः, द्यौः
छन्दः - पथ्याबृहती
सूक्तम् - आत्मगोपन सूक्त
पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑। अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥
स्वर सहित पद पाठपा॒तम् । न॒: । इ॒न्द्रा॒पू॒ष॒णा॒ । अदि॑ति: । पान्तु॑ । म॒रुत॑: । अपा॑म् । न॒पा॒त् । सि॒न्ध॒व॒: । स॒प्त । पा॒त॒न॒ । पातु॑ । न॒: । विष्णु॑: । उ॒त। द्यौ: ॥३.१॥
स्वर रहित मन्त्र
पातं न इन्द्रापूषणादितिः पान्तु मरुतः। अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥
स्वर रहित पद पाठपातम् । न: । इन्द्रापूषणा । अदिति: । पान्तु । मरुत: । अपाम् । नपात् । सिन्धव: । सप्त । पातन । पातु । न: । विष्णु: । उत। द्यौ: ॥३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 3; मन्त्र » 1
विषय - वृद्धि करने के लिये उपदेश।
पदार्थ -
(इन्द्रापूषणा) हे बिजुली और वायु (नः) हमें (पातम्) बचाओ। (अदितिः) अदीन प्रकृति और (मरुतः) विद्वान् लोग (पान्तु) बचावें। (अपाम्) हे जीवों के (नपात्) न गिरानेवाले, अग्नि [शरीर बल] और (सप्त) हे नित्य सम्बन्धवाले वा सात (सिन्धवः) गतिशील [त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] (पातन) बचाओ (विष्णुः) सर्वव्यापक परमेश्वर (उत) और (द्यौ) प्रकाशमान बुद्धि (नः) हमें (पातु) बचावे ॥१॥
भावार्थ - मनुष्य परमेश्वर के उपकारों को विचारता हुआ बिजुली आदि पदार्थों से उपकार लेकर रक्षा करें ॥१॥
टिप्पणी -
१−(पातम्) रक्षतम् (नः) अस्मान् (इन्द्रापूषणा) इन्द्रश्च पूषा च। देवताद्वन्द्वे च। पा० ६।३।२६। इति पूर्वपदस्य आनड्। हे विद्युद्वायू (अदितिः) अ० २।२८।४। अदीना प्रकृतिः (पान्तु) रक्षन्तु (मरुतः) अ० १।२०।१। ऋत्विजः−निघ० ३।३८। विद्वांसः (अगम्) जीवानाम्−दयानन्दभाष्ये, य० १७।३०। (नपात्) अ० १।१३।२। न पातयिता। अग्निः। शारीरिकबलमित्यर्थः (सिन्धवः) अ० ४।३।१। स्यन्दनशीलाः। सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी−निरु० १२।३७। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः (सप्त) अ० ४।११।९। समवेताः। संख्यावाचको वा। (पातन) तप्तनप्तनथनाश्च। पा० ७।१।४५। इति मध्यमपुरुषस्य तशब्दस्य तन आदेशः। पात। रक्षत (पातु) रक्षतु (नः) अस्मान् (विष्णुः) अ० ३।२०।४। सर्वव्यापकः परमेश्वरः (उत) अपि च (द्यौः) प्रकाशमाना बुद्धिः ॥