Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 35/ मन्त्र 2
वै॑श्वान॒रो न॒ आग॑मदि॒मं य॒ज्ञं स॒जूरुप॑। अ॒ग्निरु॒क्थेष्वंह॑सु ॥
स्वर सहित पद पाठवै॒श्वा॒न॒र । न॒: । आ । अ॒ग॒म॒त् । इ॒मम् । य॒ज्ञम् । स॒ऽजू: । उप॑ । अ॒ग्नि: । उ॒क्थेषु॑ । अंह॑ऽसु ॥३५.२॥
स्वर रहित मन्त्र
वैश्वानरो न आगमदिमं यज्ञं सजूरुप। अग्निरुक्थेष्वंहसु ॥
स्वर रहित पद पाठवैश्वानर । न: । आ । अगमत् । इमम् । यज्ञम् । सऽजू: । उप । अग्नि: । उक्थेषु । अंहऽसु ॥३५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 35; मन्त्र » 2
विषय - यश की प्राप्ति का उपदेश।
पदार्थ -
(वैश्वानरः) सब का नाशक, (सजूः) प्रीतिवाला (अग्निः) सर्वव्यापक परमेश्वर (अंहसु) प्राप्तियोग्य (उक्थेषु) प्रकथनीय गुणों में वर्तमान होकर (इमम्) इस (यज्ञम्) पूजनीय कर्म को (उप=उपेत्य) प्राप्त करके (न) हमको (आ अगमत्) प्राप्त हुआ है ॥२॥
भावार्थ - सर्वशक्तिमान् परमेश्वर की स्तुति गाकर हम सदा पुरुषार्थ करें ॥२॥
टिप्पणी -
२−(वैश्वानरः) सर्वनायकः (नः) अस्मान् (आ अगमत्) प्राप्तवान् (इमम्) क्रियमाणम् (यज्ञम्) पूजनीयं व्यवहारम् (सजूः) सह+जुषी प्रीतिसेवनयोः−क्विप्। ससजुषो रुः। पा० ८।२।६६। इति रुत्वम्। र्वोरुपधाया दीर्घ इकः। पा० ८।२।७६। इति दीर्घः। जुषा सह वर्तमानः। प्रीतियुक्तः (उप) उपेत्य (अग्निः) सर्वव्यापकः परमेश्वरः (उक्थेषु) अ० २।१२।२। प्रकथनीयेषु गुणेषु (अहसु) अहि गतौ−अच्। प्राप्तव्येषु ॥