Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 46/ मन्त्र 3
सूक्त - यम
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःष्वप्ननाशन
यथा॑ क॒लां यथा॑ श॒फं यथ॒र्णं सं॒नय॑न्ति। ए॒वा दुः॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते सं न॑यामसि ॥
स्वर सहित पद पाठयथा॑ । क॒लाम् । यथा॑ । श॒फम् । यथा॑ । ऋ॒णम् । स॒म्ऽनय॑न्ति । ए॒व । दु॒:ऽस्वप्न्य॑म् । सर्व॑म् । द्वि॒ष॒ते । न॒या॒म॒सि॒ ॥४६.३॥
स्वर रहित मन्त्र
यथा कलां यथा शफं यथर्णं संनयन्ति। एवा दुःष्वप्न्यं सर्वं द्विषते सं नयामसि ॥
स्वर रहित पद पाठयथा । कलाम् । यथा । शफम् । यथा । ऋणम् । सम्ऽनयन्ति । एव । दु:ऽस्वप्न्यम् । सर्वम् । द्विषते । नयामसि ॥४६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 46; मन्त्र » 3
विषय - स्वप्न के गुणों का उपदेश।
पदार्थ -
(यथा यथा) जैसे जैसे (कलाम्) सोलहवाँ अंश और (यथा) जैसे (शफम्) आठवाँ अंश [देकर] (ऋणम्) ऋण को (संनयन्ति) लोग चुकाते हैं। (एव) वैसे ही (सर्वम्) सब (दुःस्वप्न्यम्) नींद में उठे बुरे विचार को (द्विषते) वैरी के लिये (सम् नयामसि) हम यथावत् छोड़ते हैं ॥३॥
भावार्थ - जैसे मनुष्य अपने आय का सोलहवाँ वा आठवाँ अंश देकर ऋण चुकाते हैं, वैसे ही स्वप्न के कुविचारों को वैरी पर छोड़ते हैं ॥३॥
टिप्पणी -
३−(यथा यथा) येनैव प्रकारेण (कलाम्) आयस्य षोडशांशम् (शफम्) गवादिपादचतुष्टयस्य द्विखुरत्वाद् एकस्य खुरस्याष्टमांशग्रहणम्। अष्टमांशम् (ऋणम्) पुनर्देयत्वेन गृहीतं धनम् (संनयन्ति) सम्प्रदानेन गमयन्ति (एव) एवम् (दुःस्वप्न्यम्) कुनिद्राभवं विचारम् (सर्वम्) (द्विषते) द्वेष्ट्रे जनाय (सम्) सम्यक् (नयामसि) प्रापयामः ॥