Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 57/ मन्त्र 3
सूक्त - शन्ताति
देवता - रुद्रः
छन्दः - पथ्याबृहती
सूक्तम् - जलचिकित्सा सूक्त
शं च॑ नो॒ मय॑श्च नो॒ मा च॑ नः॒ किं च॒नाम॑मत्। क्ष॒मा रपो॒ विश्वं॑ नो अस्तु भेष॒जं सर्वं॑ नो अस्तु भेष॒जम् ॥
स्वर सहित पद पाठशम् । च॒ । न॒: । मय॑: । च॒ । न॒: । मा । च॒ । न॒: । किम् । च॒न । आ॒म॒म॒त् । क्ष॒मा । रप॑: । विश्व॑म् । न॒: । अ॒स्तु॒ । भे॒ष॒ज॒म् । सर्व॑म् । न॒: । अ॒स्तु॒ । भे॒ष॒जम् ॥५७.३॥
स्वर रहित मन्त्र
शं च नो मयश्च नो मा च नः किं चनाममत्। क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥
स्वर रहित पद पाठशम् । च । न: । मय: । च । न: । मा । च । न: । किम् । चन । आममत् । क्षमा । रप: । विश्वम् । न: । अस्तु । भेषजम् । सर्वम् । न: । अस्तु । भेषजम् ॥५७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 57; मन्त्र » 3
विषय - दोष के नाश के लिये उपदेश।
पदार्थ -
(च) निश्चय करके (नः) हमारे लिये (शम्) शान्ति (च) और (नः) हमारे लिये (मयः) सुख होवे, (च) और (नः) हमें (किं चन) कोई भी दुःख (मा आममत्) न पीड़ा देवे। (रपः=रपसः) पाप की (क्षमा) क्षमा हो। (विश्वम्) सब जगत् (नः) हमारे लिये (भेषजम्) भयनिवारक (अस्तु) होवे, (सर्वम्) सब (नः) हमारे लिये (भेषजम्) रोगनाशक (अस्तु) होवे ॥३॥
भावार्थ - मनुष्य रुद्र परमात्मा के अनुग्रह से पुरुषार्थपूर्वक अपने विघ्न हटा कर सुख भोगें ॥३॥
टिप्पणी -
३−(शम्) शान्तिः। स्वास्थ्यम् (च) निश्चयेन (नः) अस्मभ्यम् (मयः) अ० १।१३।२। सुखम् (च) समुच्चये (नः) (च) (नः) अस्मान् (किंचन) किमपि दुःखम् (मा आममत्) अम पीडने−लुङि चङि रूपम्। न पीडयेत् (क्षमा) क्षमूष् सहने−अङ्। क्षान्तिः। उपशमः (रपः) अ० ४।१३।२। रपो रप्रमिति पापनामनी। भवतः−निरु० ४।२१। सुपां सुलुक्०। पा० ७।१।३९। इति षष्ठ्या लुक्। रपसः। दोषस्य (विश्वम्) सर्वं जगत् (नः) अस्मभ्यम् (भेषजम्) भयनिवारकम् (सर्वम्) समस्तम् (नः) (अस्तु) (भेषजम्) रोगनाशकम् ॥