Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 60/ मन्त्र 1
अ॒यमा या॑त्यर्य॒मा पु॒रस्ता॒द्विषि॑तस्तुपः। अ॒स्या इ॒च्छन्न॒ग्रुवै॒ पति॑मु॒त जा॒याम॒जान॑ये ॥
स्वर सहित पद पाठअ॒यम् । आ । या॒ति॒ । अ॒र्य॒मा । पु॒रस्ता॑त् । विसि॑तऽस्तुप: । अ॒स्यै । इ॒च्छन् । अ॒ग्रुवै॑ । पति॑म् । उ॒त । जा॒याम् । अ॒जान॑ये ॥६०.१॥
स्वर रहित मन्त्र
अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः। अस्या इच्छन्नग्रुवै पतिमुत जायामजानये ॥
स्वर रहित पद पाठअयम् । आ । याति । अर्यमा । पुरस्तात् । विसितऽस्तुप: । अस्यै । इच्छन् । अग्रुवै । पतिम् । उत । जायाम् । अजानये ॥६०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 60; मन्त्र » 1
विषय - गृहस्थ आश्रम में प्रवेश का उपदेश।
पदार्थ -
(अयम्) यह (विषितस्तुपः) प्रसिद्ध स्तुतिवाला (अर्यमा) अन्धकारनाशक सूर्य (अस्यै) इस (अग्रुवै) ज्ञानवती कन्या के लिये (पतिम्) पति, (उत) और (अजानये) अविवाहित पुरुष के लिये (जायाम्) पत्नी (इच्छन्) चाहता हुआ (पुरस्तात्) हमारे आगे (आ याति) आता है ॥१॥
भावार्थ - ब्रह्मचारिणी और ब्रह्मचारी वेद आदि शास्त्रों के अध्ययन से सूर्य के समान तेजस्वी अर्थात् ब्रह्मवर्चसी होकर युवा अवस्था में गृहस्थाश्रम में प्रवेश करें ॥१॥
टिप्पणी -
१−(अयम्) पुरोदृश्यमानः (आ याति) आगच्छति (अर्यमा) अ० ३।१४।२। अन्धकारनाशकः सूर्यः (पुरस्तात्) अस्माकमग्रे (विषितस्तुपः) वि-षो अन्तकर्मणि−क्त। स्तुवो दीर्घश्च। उ० ३।२५। इति ष्टुञ् स्तुतौ−प। विषितो विज्ञातः स्तुपः स्तुतिर्यस्य सः। प्रसिद्धस्तोमः (अस्यै) प्रसिद्धायै गुणवत्यै (इच्छन्) अभिलष्यन् (अग्रुवै) जत्र्वादयश्च। उ० ४।१०२। इति अगि गतौ−रु, ऊङ्। ज्ञानवत्यै कन्यायै (पतिम्) भर्तारम् (जायाम्) पत्नीम् (अजानये) जायारहिताय। अविवाहिताय पुरुषाय ॥