Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 66/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्। सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥
स्वर सहित पद पाठनि:ऽह॑स्त: । शत्रु॑: । अ॒भि॒ऽदास॑न् । अ॒स्तु॒ । ये । सेना॑भि: । युध॑म् । आ॒ऽयन्ति॑ । अ॒स्मान् । सम् । अ॒र्प॒य॒ । इ॒न्द्र॒ । म॒ह॒ता । व॒धेन॑ । द्रातु॑ । ए॒षा॒म् । अ॒घ॒ऽहा॒र: । विऽवि॑ध्द: ॥६६.१॥
स्वर रहित मन्त्र
निर्हस्तः शत्रुरभिदासन्नस्तु ये सेनाभिर्युधमायन्त्यस्मान्। समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥
स्वर रहित पद पाठनि:ऽहस्त: । शत्रु: । अभिऽदासन् । अस्तु । ये । सेनाभि: । युधम् । आऽयन्ति । अस्मान् । सम् । अर्पय । इन्द्र । महता । वधेन । द्रातु । एषाम् । अघऽहार: । विऽविध्द: ॥६६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 66; मन्त्र » 1
विषय - सेनापति के लक्षणों का उपदेश।
पदार्थ -
(शत्रुः) शत्रु (न) हम पर (अभिदासन्) चढ़ाई करता हुआ (निर्हस्तः) निहत्था (अस्तु) होवे, [और ये भी,] (ये) जो (सेनाभिः) अपनी सेनाओं के साथ (युधम्) युद्ध करने के लिये (अस्मान्) हम पर (आयन्ति) चले आते हैं। (इन्द्र) हे प्रतापी सेनापति इन्द्र ! [उन सब को] (महता) बड़े (वधेन) वध के साथ (समर्पय) मार गिरा, (एषाम्) इन सब का (अघहारः) दुःखदायी प्रधान (विविद्धः) आर-पार छिदकर (द्रातु) भाग जावे ॥१॥
भावार्थ - चतुर सेनापति शत्रुओं और उनकी सेनाओं को अपनी सुशिक्षित सेना द्वारा हरा कर भगा देवे ॥१॥
टिप्पणी -
१−(निर्हस्तः) निर्गतहस्तसामर्थ्यः (शत्रुः) अरिः (अभिदासन्) दास वधे−शतृ। अभिहिंसन् (अस्तु) (ये) ये तेऽपि (सेनाभिः) सैन्येः (युधम्) युध संप्रहारे−क्विप्। चतुर्थ्यर्थे द्वितीया। युधे। युद्धाय (आयन्ति) अभिगच्छन्ति (अस्मान्) धार्मिकान् (समर्पय) अ० ५।२२।६। ऋ हिंसायाम्−णिच् पुक्। सम्यग् विनाशय (इन्द्र) हे प्रतापिन् सेनापते (महता) विशालेन (वधेन) हननेन (द्रातु) द्रा कुत्सायां गतौ। पलायताम् (एषाम्) शत्रूणाम् (अघहारः) कर्मण्यण्। पा० ३।२।१। इति−अघ+हृञ् हरणे−अण्। अघस्य दुःखस्य प्रापयिता (विविद्धः) व्यध ताडने−क्त। विशेषेण छिन्नः ॥