Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 75/ मन्त्र 3
सूक्त - कबन्ध
देवता - इन्द्रः
छन्दः - षट्पदा जगती
सूक्तम् - सपत्नक्षयण सूक्त
एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑। एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति। श॑श्व॒तीभ्यः॒ समा॑भ्यो॒ याव॒त्सूर्यो॒ अस॑द्दि॒वि ॥
स्वर सहित पद पाठएतु॑ । ति॒स्र: । प॒रा॒ऽवत॑: । एतु॑ । पञ्च॑ । जना॑न् । अति॑ । एतु॑ । ति॒स्र: । अति॑ । रो॒च॒ना । यत॑: । न । पुन॑: । आ॒ऽअय॑ति । श॒श्व॒तीभ्य॑: । समा॑भ्य: । याव॑त् । सूर्य॑: । अस॑त् । दि॒वि ॥७५.३॥
स्वर रहित मन्त्र
एतु तिस्रः परावत एतु पञ्च जनाँ अति। एतु तिस्रोऽति रोचना यतो न पुनरायति। शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥
स्वर रहित पद पाठएतु । तिस्र: । पराऽवत: । एतु । पञ्च । जनान् । अति । एतु । तिस्र: । अति । रोचना । यत: । न । पुन: । आऽअयति । शश्वतीभ्य: । समाभ्य: । यावत् । सूर्य: । असत् । दिवि ॥७५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 75; मन्त्र » 3
विषय - शत्रु के हटाने का उपदेश।
पदार्थ -
जो पुरुष (तिस्रः) तीन [अपने मानुष स्थान, नाम और जाति रूप] (परावतः) उत्कृष्ट भूमियों [वा धामों] को (अति=अतीत्य) उलाँघ कर (एतु) चले, और (पञ्च जनान्) पाँच [ब्राह्मण, क्षत्रिय, वैश्य और शूद्र, चारों वर्ण, और पाचवें नीच योनि, पशु, पक्षी, वृक्ष आदि] प्राणियों [की मर्यादा] को [उलाँघकर] (एतु) चले। वह पुरुष (तिस्रः रोचनाः) तीन [जीव, प्रकृति और परमेश्वर की] रुचि योग्य विद्याओं को [अथवा, सूर्य, चन्द्र और अग्नि के] प्रकाशों को (अति=अतीत्य) उलाँघ कर [वहाँ] (एतु) चला जावे, (यतः) जहाँ से वह (शश्वतीभ्यः समाभ्यः) बहुत बरसों तक (पुनः) फिर (न) न (आयति) आवे, (यावत्) जब तक (सूर्यः) सूर्य (दिवि) अन्तरिक्ष में (असत्) रहे ॥३॥
भावार्थ - जो मनुष्य मानुषी मर्यादा को छोड़ कर महाघोर पातक करते हैं, उनकी तामसी वृत्ति हो जाती है, और वे जन्म-जन्मान्तरों तक सदा दुःखसागर में डूबे रहते हैं ॥३॥ इस मन्त्र का मिलान करो−ऋग्वेद २।२७।८, ९ ॥ पदपाठ में (रोचना) पद के स्थान पर सायणभाष्य के अनुसार (रोचनाः) ऐसा पद हमने माना है ॥
टिप्पणी -
३−(एतु) गच्छतु। प्राप्नोतु (तिस्रः) त्रिसंख्याकाः (परावतः) म० २। परा प्राधान्ये। मानुषस्थाननामजन्मरूपा उत्कर्षगता भूमीर्धामानि वा। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति−निरू० ९।२८। (एतु) (पञ्च जनान्) पञ्च जनाः, मनुष्यनाम−निघ० ३।२। पञ्च जनाः... गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवो निषादः कस्मान्निषण्णमस्मिन् पापकमिति नैरुक्ता−निरु० ३।८। पञ्चभूतसम्बन्धिनः प्राणिनः। ब्राह्मणक्षत्रियवैश्यशूद्रांश्चतुरो वर्णान् नीचयोनिपशुपक्ष्यादिकं पञ्चमं च (अति) अतीत्य (एतु) (तिस्रः) त्रिसंख्याकाः (अति) उल्लङ्घ्य (रोचनाः) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। इति रुच दीप्तावभिप्रीतौ च−युच्। जीवप्रकृतिपरमेश्वराणां रोचिका विद्याः। यद्वा, सूर्यचन्द्राग्नीनां रोचमानाः प्रभाः (यावत्) यत्कालपर्यन्तम् (सूर्यः) लोकानां प्रेरक आदित्यः (असत्) भवेत् (दिवि) आकाशे ॥