Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 82/ मन्त्र 1
आ॒गच्छ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः। इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ॥
स्वर सहित पद पाठआ॒ऽगच्छ॑त: । आऽग॑तस्य । नाम॑ । गृ॒ह्णा॒मि॒ । आ॒ऽय॒त: । इन्द्र॑स्य । वृ॒त्र॒ऽघ्न: । व॒न्वे॒ । वा॒स॒वस्य॑ । श॒तऽक्र॑तो:॥८२.१॥
स्वर रहित मन्त्र
आगच्छत आगतस्य नाम गृह्णाम्यायतः। इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥
स्वर रहित पद पाठआऽगच्छत: । आऽगतस्य । नाम । गृह्णामि । आऽयत: । इन्द्रस्य । वृत्रऽघ्न: । वन्वे । वासवस्य । शतऽक्रतो:॥८२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 1
विषय - विवाह संस्कार का उपदेशः।
पदार्थ -
(आयतः) अति यत्नशाली वा नियमवान् मैं (आगच्छतः) आते हुए और (आगतस्य) आये हुए पुरुष का (नाम) नाम [कीर्ति] (गृह्णामि) स्वीकार करता हूँ। (वृत्रघ्नः) अन्धकारनाशक, (वासवस्य) बहुत धनवाले और (शतक्रतोः) सैकड़ों कर्मोंवाले (इन्द्रस्य) संपूर्ण ऐश्वर्य्यवाले परमात्मा की (वन्वे) में प्रार्थना करता हूँ ॥१॥
भावार्थ - मनुष्य परमेश्वर से प्रार्थना करके प्रयत्न करें, जिससे उनके आचरण वर्तमान और पूर्वज महात्माओं के समान धार्मिक होवें ॥१॥
टिप्पणी -
१−(आगच्छतः) इदानीं वर्तमानस्य (आगतस्य) भूतकाले प्राप्तस्य पुरुषस्य (नाम) कीर्तनम् (गृह्णामि) स्वीकरोमि (आयतः) (आङ्+यती) प्रयत्ने−अच्, यद्वा। आङ्+यम नियमने−क्त। अतिप्रयत्नशाली। प्रशस्तनियमवान् (इन्द्रस्य) परमैश्वर्यवतः परमेश्वरस्य (वृत्रघ्नः) अन्धकारनाशस्य (वन्वे) वनु याचने। अहं याचे (वासवस्य) वसु−अण्। वसु धनम्−निघ० २।१०। वसूनि धनानि सन्ति यस्य तस्य (शतक्रतोः) क्रतुः कर्म−निघ० २।१। बहुकर्मयुक्तस्य ॥