Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 93/ मन्त्र 2
सूक्त - शन्ताति
देवता - भवः, शर्वः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वस्त्ययन सूक्त
मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑। न॑म॒स्येभ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ॥
स्वर सहित पद पाठमन॑सा । होमै॑: । हर॑सा । घृ॒तेन॑ । श॒र्वाय॑ । अस्त्रे॑ । उ॒त ।राज्ञे॑ । भ॒वाय॑ । न॒म॒स्ये᳡भ्य: । नम॑: । ए॒भ्य॒: । कृ॒णो॒मि॒ । अ॒न्यत्र॑ । अ॒स्मत् । अ॒घऽवि॑षा: । न॒य॒न्तु॒ ॥९३.२॥
स्वर रहित मन्त्र
मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय। नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥
स्वर रहित पद पाठमनसा । होमै: । हरसा । घृतेन । शर्वाय । अस्त्रे । उत ।राज्ञे । भवाय । नमस्येभ्य: । नम: । एभ्य: । कृणोमि । अन्यत्र । अस्मत् । अघऽविषा: । नयन्तु ॥९३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 93; मन्त्र » 2
विषय - सत्सङ्ग के लाभ का उपदेश।
पदार्थ -
(मनसा) विज्ञान के साथ, (होमैः) देने और लेने योग्य व्यवहारों के साथ, (हरसा) अन्धकार हरनेवाले (घृतेन) प्रकाश के साथ वर्तमान (शर्वाय) [धर्मात्माओं के] कष्टनाशक, (अस्त्रे) ग्रहण करनेवाले (उत) और (भवाय) सुख देनेवाले (राज्ञे) राजा परमेश्वर को, और (एभ्यः) इन (नमस्येभ्यः) नमस्कार योग्य महात्माओं को (नमः) विनति (कृणोमि) करता हूँ। वे सब (अस्मत्) हम से (अन्यत्र) दूसरों पर [दुष्कर्मियों पर] (अघविषाः) पाप रूप विषवाली पीड़ाओं को (नयन्तु) ले जावें ॥२॥
भावार्थ - मनुष्य परमेश्वर के और विद्वानों के वेदविहित उपदेशों को मान कर दुराचारों को छोड़ कर धार्मिक होकर आनन्दित होवें ॥२॥
टिप्पणी -
२−(मनसा) मन ज्ञाने−असुन्। विज्ञानेन सह (होमैः) अ० ४।३८।५। हु दानादानयोः−मन्। दातव्यग्राह्यव्यवहारैः (हरसा) अन्धकारेण हारकेण (घृतेन) घृ भासे−क्त। प्रकाशेन (शर्वाय) अ० ४।२८।१। कष्टनाशकाय (अस्त्रे) म० १। ग्रहीत्रे (उत) अपि च (राज्ञे) शासकाय (भवाय) अ० ४।२८।१। सुखोत्पादकाय परमेश्वराय (नमस्येभ्यः) नमस्कारार्हेभ्यो विद्वद्भ्यः (नमः) विनतिम् (एभ्यः) (कृणोमि) करोमि (अन्यत्र) अन्येषु दुष्कर्मिषु (अस्मत्) धार्मिकेभ्यः (अघविषाः) अघं पापमेव विषं विषवन्मृत्युकरं यासु ताः पीडाः (नयन्तु) प्रापयन्तु ॥