Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 96/ मन्त्र 3
सूक्त - भृग्वङ्गिरा
देवता - सोमः
छन्दः - त्रिपदा विराड्गायत्री
सूक्तम् - चिकित्सा सूक्त
यच्चक्षु॑षा॒ मन॑सा॒ यच्च॑ वा॒चोपा॑रि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑। सोम॒स्तानि॑ स्व॒धया॑ नः पुनातु ॥
स्वर सहित पद पाठयत् । चक्षु॑षा । मन॑सा । यत् । च॒ । वा॒चा । उ॒प॒ऽआ॒स्मि॒ । जाग्र॑त: । यत् । स्व॒पन्त॑: । सोम॑: । तानि॑ । स्व॒धया॑ । न॒: । पु॒ना॒तु॒ ॥९६.३॥
स्वर रहित मन्त्र
यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः। सोमस्तानि स्वधया नः पुनातु ॥
स्वर रहित पद पाठयत् । चक्षुषा । मनसा । यत् । च । वाचा । उपऽआस्मि । जाग्रत: । यत् । स्वपन्त: । सोम: । तानि । स्वधया । न: । पुनातु ॥९६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 96; मन्त्र » 3
विषय - ओषधियों के गुणों का उपदेश।
पदार्थ -
(यत्) जो कुछ पाप (चक्षुषा) नेत्र से (च) और (यत्) जो कुछ (मनसा) मन से और (यत्) जो कुछ (वाचा) वाणी से (जाग्रतः) जागते हुए [अथवा] (स्वपन्तः) सोते हुए (उपारिम) हमने किया है। (सोमः) बड़े ऐश्वर्यवाला जगदीश्वर (नः) हमारे (तानि) उन पापों की (स्वधया) अपनी धारण शक्ति से (पुनातु) शुद्ध करे ॥३॥
भावार्थ - मनुष्य परमेश्वर के विचार और युक्त आहार-विहार से सोते-जागते सदा धर्म का विचार और अनुष्ठान करते रहें ॥३॥
टिप्पणी -
३−(यत्) पापम्। किल्बिषम्। मन्त्र २ (चक्षुषा) नेत्रेण (मनसा) मननसाधकेन चित्तेन (वाचा) वाण्या (उपारिम) अ० ६।४५।२। कृतवन्तः (जाग्रतः) जागृ निद्राक्षये−शतृ। जक्षित्यादयः षट्। पा० ६।१।६। इत्यभ्यस्तत्वात्। नाभ्यस्ताच्छतुः। पा० ७।१।७८। इति नुमभावः। जागरदवस्थापन्नाः (स्वपन्तः) निद्रालवः (सोमः) सर्वैश्वर्यवान् जगदीश्वरः, (तानि) किल्बिषाणि (स्वधया) अ० २।२९।७। स्व+डुधाञ् धारणपोषणयोः−क, टाप्। आत्मधारणशक्त्या (नः) अस्माकम् (पुनातु) शोधयतु ॥