Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 106/ मन्त्र 1
सूक्त - अथर्वा
देवता - जातवेदाः, वरुणः
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - अमृतत्व सूक्त
यदस्मृ॑ति चकृ॒म किं चि॑दग्न उपारि॒म चर॑णे जातवेदः। ततः॑ पाहि॒ त्वं नः॑ प्रचेतः शु॒भे सखि॑भ्यो अमृत॒त्वम॑स्तु नः ॥
स्वर सहित पद पाठयत् । अस्मृ॑ति । च॒कृ॒म । किम् । चि॒त् । अ॒ग्ने॒ । उ॒प॒ऽआ॒रि॒म । चर॑णे । जा॒त॒ऽवे॒द॒: । तत॑: । पा॒हि॒ । त्वम् । न॒: । प्र॒ऽचे॒त॒: । शु॒भे । सखि॑ऽभ्य: । अ॒मृ॒त॒ऽत्वम् । अ॒स्तु॒ । न॒: ॥१११.१॥
स्वर रहित मन्त्र
यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः। ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥
स्वर रहित पद पाठयत् । अस्मृति । चकृम । किम् । चित् । अग्ने । उपऽआरिम । चरणे । जातऽवेद: । तत: । पाहि । त्वम् । न: । प्रऽचेत: । शुभे । सखिऽभ्य: । अमृतऽत्वम् । अस्तु । न: ॥१११.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 106; मन्त्र » 1
विषय - अमरपन पाने का उपदेश।
पदार्थ -
(अग्ने) हे सर्वव्यापक परमेश्वर ! (यत् किं चित्) जो कुछ भी [दुष्कर्म] (अस्मृति) विस्मरण [भूल, आगे पीछे के विना विचार] से (चकृम) हमने किया है, (जातवेदः) हे उत्पन्न पदार्थों के जाननेवाले ! [अपने] (चरणे) आचरण में (उपारिम) हमने अपराध किया है। (प्रचेतः) हे महाविद्वान् ! (ततः) उससे (त्वम्) तू (नः) हमें (पाहि) बचा, (नः) हम [तेरे] (सखिभ्यः) सखाओं को (शुभे) कल्याण के लिये (अमृतत्वम्) अमरपन (अस्तु) होवे ॥१॥
भावार्थ - मनुष्यों से यदि आगा-पीछा विना विचारे अपराध हो जावे, उसका प्रायश्चित करके और आगे को अपराध त्याग कर शुभकर्म करके कीर्त्तिमान् होवें ॥१॥
टिप्पणी -
१−(यत्) दुष्कर्म (अस्मृति) यथा तथा। स्मरणरहितं पूर्वोत्तरकर्मफलानुसन्धानरहितम् (चकृम) वयं कृतवन्तः (किंचित्) किमपि (अग्ने) हे सर्वव्यापक परमेश्वर (उप-आरिम) ऋ हिंसायाम्-लिट्। वयमपराद्धवन्तः (चरणे) आचरणे (जातवेदः) हे जातानां वेदितः (ततः) तस्मात् (पाहि) रक्ष (त्वम्) (नः) अस्मान् (प्रचेतः) हे प्रकृष्टज्ञान (शुभे) कल्याणाय (सखिभ्यः) तव प्रियभूतेभ्यः (अमृतत्वम्) अमरत्वम्। दुःखराहित्यम् (अस्तु) (नः) अस्मभ्यम् ॥