Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 107/ मन्त्र 1
अव॑ दि॒वस्ता॑रयन्ति स॒प्त सूर्य॑स्य र॒श्मयः॑। आपः॑ समु॒द्रिया॒ धारा॒स्तास्ते॑ श॒ल्यम॑सिस्रसन् ॥
स्वर सहित पद पाठअव॑ । दि॒व: । ता॒र॒य॒न्ति॒ । स॒प्त । सूर्य॑स्य । र॒श्मय॑: । आप॑: । स॒मु॒द्रिया॑: । धारा॑: । ता: । ते॒ । श॒ल्यम् । अ॒सि॒स्र॒स॒न् ॥११२.१॥
स्वर रहित मन्त्र
अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः। आपः समुद्रिया धारास्तास्ते शल्यमसिस्रसन् ॥
स्वर रहित पद पाठअव । दिव: । तारयन्ति । सप्त । सूर्यस्य । रश्मय: । आप: । समुद्रिया: । धारा: । ता: । ते । शल्यम् । असिस्रसन् ॥११२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 107; मन्त्र » 1
विषय - परस्पर दुःख नाश का उपदेश।
पदार्थ -
(सूर्यस्य) सूर्य की (सप्त) सात [वा नित्य मिली हुई] (रश्मयः) किरण (दिवः) आकाश से (समुद्रियाः) अन्तरिक्ष में रहनेवाले (धाराः) धारारूप (आपः) जलों को (अव तारयन्ति) उतारती हैं, (ताः) उन्होंने (ते) तेरी (शल्यम्) कील [क्लेश] को (असिस्रसन्) बहा दिया है ॥१॥
भावार्थ - जैसे सूर्य की किरणें जल बरसा कर दुर्भिक्ष आदि पीड़ायें दूर करती हैं, वैसे ही मनुष्य परस्पर दुःख नाश करें ॥१॥
टिप्पणी -
१−(दिवः) आकाशात् (अवतारयन्ति) अवपातयन्ति (सप्त) अ० ४।६।२। सप्तसंख्याकाः। समवेताः (सूर्यस्य) आदित्यस्य (रश्मयः) व्यापकाः किरणाः (आपः) द्वितीयार्थे प्रथमा। अपः। जलानि (समुद्रियाः) अ० ७।७।१। अन्तरिक्षे भवाः (धाराः) प्रवाहरूपाः (ताः) (आपः) (ते) तव (शल्यम्) अ० २।३०।३। वाणाग्रभागम्। क्लेशमित्यर्थः। (असिस्रसन्) स्रंसु गतौ, ण्यन्ताल्लुङि चङि। अनिदितां हल० पा० ६।४।२४। उपधानकारलोपः। सन्वल्लघुनि०। पा० ७।४।९३। इति सन्वद्भावात्। सन्यतः। पा० ७।४।७९। अभ्यासस्य इत्वम्। निवारितवत्यः ॥