Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 11/ मन्त्र 1
सूक्त - शौनकः
देवता - सरस्वती
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रसभा सूक्त
यस्ते॑ पृ॒थु स्त॑नयि॒त्नुर्य ऋ॒ष्वो दैवः॑ के॒तुर्विश्व॑मा॒भूष॑ती॒दम्। मा नो॑ वधीर्वि॒द्युता॑ देव स॒स्यं मोत व॑धी र॒श्मिभिः॒ सूर्य॑स्य ॥
स्वर सहित पद पाठय: । ते॒ । पृ॒थु: । स्त॒न॒यि॒त्नु: । य: । ऋ॒ष्व: । दैव॑: । के॒तु: । विश्व॑म् । आ॒ऽभूष॑ति । इ॒दम् । मा । न॒: । व॒धी॒: । वि॒ऽद्युता॑ । दे॒व॒: । स॒स्यम् । मा । उ॒त । व॒धी॒: । र॒श्मिऽभि॑: । सूर्य॑स्य ॥१२.१॥
स्वर रहित मन्त्र
यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम्। मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥
स्वर रहित पद पाठय: । ते । पृथु: । स्तनयित्नु: । य: । ऋष्व: । दैव: । केतु: । विश्वम् । आऽभूषति । इदम् । मा । न: । वधी: । विऽद्युता । देव: । सस्यम् । मा । उत । वधी: । रश्मिऽभि: । सूर्यस्य ॥१२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 11; मन्त्र » 1
विषय - अन्न की रक्षा का उपदेश।
पदार्थ -
(देव) हे जलदाता मेघ ! (यः) जो (ते) तेरा (पृथुः) विस्तीर्ण और (यः) जो (ऋष्वः) इधर-उधर चलनेवाला वा बड़ा, (दैवः) आकाश में रहनेवाला, (केतुः) जतानेवाला झण्डा रूप (स्तनयित्नुः) गर्जन (इदम् विश्वम्) इस सब स्थान में (आभूषति) व्यापता है। (नः) हमारे (सस्यम्) धान्य को (विद्युता) चमचमाती बिजुली से (मा वधीः) मत नाश कर, और (सूर्यस्य) सूर्य की (रश्मिभिः) किरणों से (उत) भी (मा वधीः) मत सुखा ॥१॥
भावार्थ - मनुष्य अतिवृष्टि, अनावृष्टि आदि दैवी विपत्तियों का विचार रख कर पहिले से अन्न आदि के संचय से रक्षा का उपाय कर लेवें ॥१॥
टिप्पणी -
१−(यः) (ते) तव (पृथुः) विस्तीर्णः (स्तनयित्नुः) अ० ४।१५।११। मेघध्वनिः) (ऋष्वः) अशूप्रुषिलटि। उ० १।१५१। ऋष गतौ दर्शने च-क्वन्। इतस्ततो गन्ता। महान्-निघ० ३।३। (दैवः) दिव्-अण्। दिवि आकाशे भवः (केतुः) अ० ६।१०३। ज्ञापकः। ध्वजरूपः (विश्वम्) सर्वं स्थानम् (आभूषति) भूष अलङ्कारे। व्याप्नोति (नः) अस्माकम् (मा वधीः) मा हिंसीः (विद्युता) अशन्या (देव) हे जलप्रद मेघ (सस्यम्) माछाशसिभ्यो यः। उ० ४।१०९। इति षस स्वप्ने-य। धान्यम् (उत) अपि (मा वधीः) मा शोषय (रश्मिभिः) किरणैः (सूर्यस्य) सवितुः ॥