अथर्ववेद - काण्ड 7/ सूक्त 38/ मन्त्र 1
सूक्त - अथर्वा
देवता - आसुरी वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - केवलपति सूक्त
इ॒दं ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम्। प॑राय॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम् ॥
स्वर सहित पद पाठइ॒दम् । ख॒ना॒मि॒ । भे॒ष॒जम् । मा॒म्ऽप॒श्यम् । अ॒भि॒ऽरो॒रु॒दम् । प॒रा॒ऽय॒त: । नि॒ऽवर्त॑नम् । आ॒ऽय॒त: । प्र॒ति॒ऽनन्द॑नम् । ३९.१॥
स्वर रहित मन्त्र
इदं खनामि भेषजं मांपश्यमभिरोरुदम्। परायतो निवर्तनमायतः प्रतिनन्दनम् ॥
स्वर रहित पद पाठइदम् । खनामि । भेषजम् । माम्ऽपश्यम् । अभिऽरोरुदम् । पराऽयत: । निऽवर्तनम् । आऽयत: । प्रतिऽनन्दनम् । ३९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 38; मन्त्र » 1
विषय - विवाह में प्रतिज्ञा का उपदेश।
पदार्थ -
[हे स्वामिन् ! मैं वधू] (मांपश्यम्) लक्ष्मी के देखनेवाले [खोजनेवाले], (अभिरोरुदम्) परस्पर संगति देनेवाले, (परायतः) दूर जानेवाले के (निवर्तनम्) लौटानेवाले, (आयतः) आनेवाले के (प्रतिनन्दनम्) स्वागत करनेवाले (इदम्) इस [प्रतिज्ञारूप] (भेषजम्) भयनिवारक औषध को (खनामि) खोदती हूँ [प्रकट करती हूँ] ॥१॥
भावार्थ - जिस प्रकार वैद्य उत्तम ओषधि को खोद कर उपकार लेता है, इसी प्रकार वधू वर प्रतिज्ञा करके परस्पर सुख बढ़ावें ॥१॥
टिप्पणी -
१−(इदम्) प्रतिज्ञारूपम् (खनामि) खननेन अन्वेषणेन प्राप्नोमि (भेषजम्) भयनिवारकमषौधम् (मांपश्यम्) इन्दिरा लोकमाता मा-अमर० १।२९। मा=लक्ष्मीः। पाघ्राध्माधेट्दृशः शः। पा० ३।१।१३७। इति दृशेः शप्रत्ययः। पाघ्राघ्मा०। पा० ७।३।७८। पश्यादेशः। तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इति द्वितीयाया अलुक्। मां लक्ष्मीं पश्यत् विलोकयत् (अभिरोरुदम्) अभि+रोरु+दम्। मीपीभ्यां रुः। उ० ४।१०१। इति रुङ् गतिरेषणयोः-रु+दा-क। अभिरोरोः, अभिगतेः परस्परसंगतेः प्रदम् (परायतः) परा+आङ्+इण् गतौ-शतृ। दूरंगच्छतः पुरुषस्य (निवर्त्तनम्) पुनरागमनकारणम् (आयतः) आगच्छतः पत्युः (प्रतिनन्दनम्) स्वागतकरम् ॥