Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 52/ मन्त्र 1
सूक्त - अथर्वा
देवता - सांमनस्यम्, अश्विनौ
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
सं॒ज्ञानं॑ नः॒ स्वेभिः॑ सं॒ज्ञान॒मर॑णेभिः। सं॒ज्ञान॑मश्विना यु॒वमि॒हास्मासु॒ नि य॑च्छतम् ॥
स्वर सहित पद पाठस॒म्ऽज्ञान॑म् । न॒: । स्वेभि॑: । स॒म्ऽज्ञान॑म् । अर॑णेभि: । स॒म्ऽज्ञान॑म् । अ॒श्वि॒ना॒ । यु॒वम् । इ॒ह । अ॒स्मासु॑ । नि । य॒च्छ॒त॒म् ॥५४.१॥
स्वर रहित मन्त्र
संज्ञानं नः स्वेभिः संज्ञानमरणेभिः। संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ॥
स्वर रहित पद पाठसम्ऽज्ञानम् । न: । स्वेभि: । सम्ऽज्ञानम् । अरणेभि: । सम्ऽज्ञानम् । अश्विना । युवम् । इह । अस्मासु । नि । यच्छतम् ॥५४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 52; मन्त्र » 1
विषय - आपस में एकता का उपदेश।
पदार्थ -
(स्वेभिः) अपनों के साथ (नः) हमारा (संज्ञानम्) एक मत और (अरणेभिः) बाहिरवालों के साथ (संज्ञानम्) एकमत हो। (अश्विना) हे माता-पिता ! (युवम्) तुम दोनों (इह) यहाँ पर (अस्मासु) हम लोगों में (संज्ञानम्) एक मत (नि) निरन्तर (यच्छतम्) दान करो ॥१॥
भावार्थ - मनुष्य माता-पिता आदिकों से शिक्षा पाकर वेद द्वारा संसार में एकता फैलावें ॥१॥
टिप्पणी -
१−(संज्ञानम्) संगतं ज्ञानम्। ऐकमत्यम् (नः) अस्माकम् (स्वेभिः) स्वकीयैः पुरुषैः (अरणेभिः) अ० १।१९।३। विदेशिभिः (अश्विना) अ० २।२९।६। हे मातापितरौ (युवम्) युवाम् (इह) अस्मिन् संसारे (अस्मासु) (नि) निरन्तरम् (यच्छतम्) दत्तम् ॥