अथर्ववेद - काण्ड 7/ सूक्त 82/ मन्त्र 3
इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॒न्पूर्व॑चित्ता निका॒रिणः॑। क्ष॒त्रेणा॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ॥
स्वर सहित पद पाठइ॒ह । ए॒व । अ॒ग्ने॒ । अधि॑ । धा॒र॒य॒ । र॒यिम् । मा । त्वा॒ । नि । क्र॒न् । पूर्व॑ऽचित्ता: । नि॒ऽका॒रिण॑: । क्ष॒त्रेण॑ । अ॒ग्ने॒ । सु॒ऽयम॑म् । अ॒स्तु॒ । तुभ्य॑म् । उ॒प॒ऽस॒त्ता । व॒र्ध॒ता॒म् । ते॒ । अनि॑ऽस्तृत: ॥८७.३॥
स्वर रहित मन्त्र
इहैवाग्ने अधि धारया रयिं मा त्वा नि क्रन्पूर्वचित्ता निकारिणः। क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥
स्वर रहित पद पाठइह । एव । अग्ने । अधि । धारय । रयिम् । मा । त्वा । नि । क्रन् । पूर्वऽचित्ता: । निऽकारिण: । क्षत्रेण । अग्ने । सुऽयमम् । अस्तु । तुभ्यम् । उपऽसत्ता । वर्धताम् । ते । अनिऽस्तृत: ॥८७.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 82; मन्त्र » 3
विषय - वेद के विज्ञान का उपदेश।
पदार्थ -
(अग्ने) हे सर्वज्ञ परमात्मन् ! (इह एव) यहाँ पर ही (रयिम्) धन को (अधि) अधिकारपूर्वक (धारय) पुष्ट कर, (पूर्वचित्ताः) पहिले से सोचनेवाले [घाती], (निकारिणः) अपकारी [दुष्ट] लोग (त्वा) तुझ को (मा नि क्रन्) नीचा न करें। (अग्ने) हे सर्वव्यापक परमेश्वर (तुभ्यम्) तेरे (क्षत्रेण) [विघ्न से बचानेवाले] राज्य के साथ [हमारा] (सुयमम्) सुन्दर नियमवाला कर्म (अस्तु) होवे, (ते) तेरा (उपसत्ता) उपासक [अश्रित जन] (अनिष्टृतः) अजेय होकर (वर्धताम्) बढ़ता रहे ॥३॥
भावार्थ - मनुष्य दूरदर्शी नीतिज्ञ होकर घात लगानेवाले शत्रुओं से बचकर धर्म के साथ अपनी और प्रजा की उन्नति करें ॥३॥
टिप्पणी -
३−(इह) अस्माकं मध्ये (एव) (अग्ने) हे सर्वज्ञ (अधि) अधिकृत्य (धारय) पोषय (रयिम्) धनम् (त्वा) परमेश्वरम् (मा नि क्रन्) मन्त्रे घसह्वर०। पा० २।४।८०। करोतेर्लुङि च्लेर्लुक्। नीचैर्मा कार्षुः (पूर्वचित्ताः) प्राग्विचारवन्तः, घातिन इत्यर्थः (निकारिणः) अपकारिणः (क्षत्रेण)-म० २। विघ्नाद् रक्षकेण राज्येन (अग्ने) सर्वव्यापक (सुयमम्) ईषद्दुःसुषु०। पा० ३।३।१२६। सु+यम नियमने-खल्। यथावद् नियमयुक्तं कर्म (अस्तु) (तुभ्यम्) षष्ठ्यर्थे चतुर्थीति वक्तव्या। वा० पा० २।३।६२। तव (उपसत्ता) षद्लृ विषरणगत्यवसादनेषु-तृच्। उपासकः। आश्रितः (वर्धताम्) (ते) तव (अनिष्टृतः) स्तॄञ् आच्छादने-क्त। स्तृणातिवर्धकर्मा-निघ० २।१९। अहिंसितः। अजेयः ॥