Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 89/ मन्त्र 3
सूक्त - सिन्धुद्वीपः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दिव्यआपः सूक्त
इ॒दमा॑पः॒ प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत्। यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पे अ॒भीरु॑णम् ॥
स्वर सहित पद पाठइ॒दम् । आ॒प॒: । प्र । व॒ह॒त॒ । अ॒व॒द्यम् । च॒ । मल॑म् । च॒ । यत् । यत् । च॒ । अ॒भि॒ऽदु॒द्रोह॑ । अनृ॑तम् । यत् । च॒ । शे॒पे । अ॒भीरु॑णम् ॥९४.३॥
स्वर रहित मन्त्र
इदमापः प्र वहतावद्यं च मलं च यत्। यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥
स्वर रहित पद पाठइदम् । आप: । प्र । वहत । अवद्यम् । च । मलम् । च । यत् । यत् । च । अभिऽदुद्रोह । अनृतम् । यत् । च । शेपे । अभीरुणम् ॥९४.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 89; मन्त्र » 3
विषय - विद्वानों की संगति का उपदेश।
पदार्थ -
(आपः) हे जल [के समान शुद्धि करनेवाले विद्वानो !] (इदम्) इस [सब] को (प्रवहत) बहा दो, (यत्) जो कुछ [मुझ में] (अवद्यम्) अकथनीय [निन्दनीय] (च च) और (मलम्) मलिन कर्म है। (च) और (यत्) जो कुछ (अनृतम्) झूँठ-मूँठ (अभिदुद्रोह) बुरा चीता है, (च) और (यत्) जो कुछ (अभीरुणम्) निर्भय [निरपराधी] पुरुष को (शेपे) मैंने दुर्वचन कहा है ॥३॥
भावार्थ - मनुष्य शुद्धाचारी विद्वानों के सत्सङ्ग से अपने आचरण को सुधारें ॥३॥ यह मन्त्र यजुर्वेद में है−६।१७ ॥
टिप्पणी -
३−(इदम्) वक्ष्यमाणम् (आपः) जलानीव शुद्धिकरा विद्वांसः (प्रवहत) अपनयत (अवद्यम्) अकथनीयं निन्द्यम् (च च) समुच्चये (मलम्) अ० २।७।१। मलिनं कर्म (यत्) यत् किञ्चित् (अभिदुद्रोह) द्रुह जिघांसायाम्-लिट्। अनिष्टं चिन्तितवानस्मि (अमृतम्) यथा तथा। असत्यम् (शेपे) शप आक्रोशे-लिट्। दुर्वचनं कथितवानस्मि (अभीरुणम्) क्षधिपिशिमिथिभ्यः कित्। उ० ३।५५। ञिभी भये-उनन्, स च कित्, रुडागमः। निर्भयम्। अनपराधिनम् ॥