Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 92/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - त्रिष्टुप्
सूक्तम् - सुत्रामाइन्द्र सूक्त
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु। तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
स्वर सहित पद पाठस: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्र॑: । अ॒स्मत् । आ॒रात् । चि॒त् । द्वेष॑: । स॒नु॒त: । यु॒यो॒तु॒ । तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥९७.१॥
स्वर रहित मन्त्र
स सुत्रामा स्ववाँ इन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु। तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
स्वर रहित पद पाठस: । सुऽत्रामा । स्वऽवान् । इन्द्र: । अस्मत् । आरात् । चित् । द्वेष: । सनुत: । युयोतु । तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥९७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 92; मन्त्र » 1
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(सः) वह (सुत्रामा) बड़ा रक्षक, (स्ववान्) बड़ा धनी, (इन्द्रः) महा प्रतापी राजा (अस्मत्) हमसे (आरात् चित्) बहुत ही दूर (द्वेषः) शत्रुओं को (सनुतः) निर्णयपूर्वक (युयोतु) हटावे। (वयम्) हम लोग (तस्य) उस (यज्ञियस्य) पूजायोग्य राजा की (अपि) ही (सुमतौ) सुमति में और (भद्रे) कल्याण करनेवाली (सौमनसे) प्रसन्नता में (स्याम) रहें ॥१॥
भावार्थ - सब मनुष्य प्रजारक्षक, शत्रुनाशक राजा की आज्ञा में रहकर सदा प्रसन्न रहें ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−६।४७।१३। तथा १०।१३१।७। और यजु० २०।५२ ॥
टिप्पणी -
१−(सः) प्रसिद्धः (सुत्रामा) सुरक्षकः (स्ववान्) गतमन्त्रे। महाधनः (इन्द्रः) प्रतापी राजा (अस्मत्) अस्मत्तः (आरात्) दूरे (चित्) एव (द्वेषः) गतमन्त्रे। शत्रून् (सनुतः) स्वरादिनिपातमव्यम्। पा० १।१।३७। अव्ययसंज्ञा। सनुतः-निर्णीतान्तर्हितनाम-निघ० ३।२५। निर्णयपूर्वकम्। निश्चयीकृतम् (युयोतु) यौतेः शपः श्लुः। निवारयतु (तस्य) (वयम्) (सुमतौ) अनुग्रहबुद्धौ (यज्ञियस्य) पूजार्हस्य (अपि) (भद्रे) कल्याणकरे (सौमनसे) सुमनसो भावे। प्रसन्नतायाम् (स्याम) ॥