अथर्ववेद - काण्ड 7/ सूक्त 97/ मन्त्र 1
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकित्व॒न्नवृ॑णीमही॒ह। ध्रु॒वम॑यो ध्रु॒वमु॒ता श॑विष्ठैप्रवि॒द्वान्य॒ज्ञमुप॑ याहि॒ सोम॑म् ॥
स्वर सहित पद पाठयत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॑: । चि॒कि॒त्व॒न् । अवृ॑णीमहि । इ॒ह । ध्रु॒वम् । अ॒य॒: । ध्रु॒वम् । उ॒त । श॒वि॒ष्ठ॒ । प्र॒ऽवि॒द्वान् । य॒ज्ञम् । उप॑ । या॒हि॒ । सोम॑म् ॥१०२.१॥
स्वर रहित मन्त्र
यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वन्नवृणीमहीह। ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान्यज्ञमुप याहि सोमम् ॥
स्वर रहित पद पाठयत् । अद्य । त्वा । प्रऽयति । यज्ञे । अस्मिन् । होत: । चिकित्वन् । अवृणीमहि । इह । ध्रुवम् । अय: । ध्रुवम् । उत । शविष्ठ । प्रऽविद्वान् । यज्ञम् । उप । याहि । सोमम् ॥१०२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 97; मन्त्र » 1
विषय - मनुष्य धर्म का उपदेश।
पदार्थ -
(यत्) जिस लिये कि (अद्य) आज (त्वा) तुझको (अस्मिन्) इस (प्रयति) प्रयत्नसाध्य (यज्ञे) संगतियोग्य व्यवहार में, (चिकित्वन्) हे ज्ञानवान् ! (होतः) हे दानी पुरुष ! (इह) यहाँ पर (अवृणीमहि) हमने चुना है [वर्णी किया है]। (शविष्ठ) हे महाबली ! तू (ध्रुवम्) दृढ़ता से (उत) और भी (ध्रुवम्) दृढ़ता से (अयः) आ, (यज्ञम्) पूजनीय व्यवहार को (प्रविद्वान्) पहिले से जाननेवाला तू (सोमम्) ऐश्वर्य को (उप) समीप से (याहि) प्राप्त कर ॥१॥
भावार्थ - मनुष्य प्रयत्नपूर्वक विद्या और बल प्राप्त करके ऐश्वर्य बढ़ावें ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में−३।२९।१६। और यजुर्वेद−८।२० ॥
टिप्पणी -
१−(यत्) यतः (अद्य) वर्तमाने दिने (त्वा) त्वाम् (प्रयति) यती प्रयत्ने-क्विप्, यद्वा इण् गतौ-शतृ। प्रयत्नसाध्ये। प्रवर्तमाने (यज्ञे) संगन्तव्ये व्यवहारे (अस्मिन्) (होतः) दातः (चिकित्वन्) अ० ५।१२।१। हे ज्ञानवन् (अवृणीमहि) वृञ् वरणे-लङ्। वयं वृतवन्तः। स्वीकृतवन्तः (ध्रुवम्) दृढत्वेन (अयः) अय गतौ-लेट्, परस्मैपदम्। आगच्छेः (ध्रुवम्) निश्चलं यथा तथा (उत) अपि (शविष्ठ) अ० ७।२५।१। हे बलवत्तम (प्रविद्वान्) अग्रे जानन् (यज्ञम्) पूजनीयं व्यवहारम् (उप) समीपम् (याहि) प्राप्नुहि (सोमम्) ऐश्वर्यम् ॥