अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 11
अव॑धी॒त्कामो॒ मम॒ ये स॒पत्ना॑ उ॒रुं लो॒कम॑कर॒न्मह्य॑मेध॒तुम्। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रो॒ मह्यं॒ षडु॒र्वीर्घृ॒तमा व॑हन्तु ॥
स्वर सहित पद पाठअव॑धीत् । काम॑: । मम॑ । ये । स॒ऽपत्ना॑: । उ॒रुम् । लो॒कम् । अ॒क॒र॒त् । मह्य॑म् । ए॒ध॒तुम् । मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिश॑: । चत॑स्र: । मह्य॑म् । षट् । उ॒र्वी: । घृ॒तम् । आ । व॒ह॒न्तु॒ ॥२.११॥
स्वर रहित मन्त्र
अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन्मह्यमेधतुम्। मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥
स्वर रहित पद पाठअवधीत् । काम: । मम । ये । सऽपत्ना: । उरुम् । लोकम् । अकरत् । मह्यम् । एधतुम् । मह्यम् । नमन्ताम् । प्रऽदिश: । चतस्र: । मह्यम् । षट् । उर्वी: । घृतम् । आ । वहन्तु ॥२.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 11
विषय - ऐश्वर्य की प्राप्ति का उपदेश।
पदार्थ -
(कामः) कामनायोग्य [परमेश्वर] ने [उनको] (अवधीत्) नष्ट कर दिया है (ये) जो (मम) मेरे (सपत्नाः) शत्रु हैं और (मह्यम्) मेरे लिये (उरुम्) चौड़ा, (एधतुम्) वृद्धि करनेवाला (लोकम्) स्थान (अकरत्) किया है। (मह्यम्) मेरे लिये (चतस्रः) चारों [पूर्व, पश्चिम, दक्षिण और उत्तर] (प्रदिशः) प्रधान दिशाएँ (नमन्ताम्) झुकें, (मह्यम्) मेरे लिये (षट्) छह [आग्नेयी, नैर्ऋती, वायवी, ऐशानी, चारों मध्य दिशा और ऊपर नीचे की दोनों] (उर्वीः) फैली हुई [दिशाएँ] (घृतम्) घृत [प्रकाश वा सार पदार्थ] (आ वहन्तु) लावें ॥११॥
भावार्थ - जो मनुष्य परमेश्वर के अनुग्रह से अपने विघ्नों का नाश करते हैं, वे विज्ञानपूर्वक उन्नति करके सब स्थानों और सब कालों में आनन्द भोगते हैं ॥११॥
टिप्पणी -
११−(अवधीत्) नाशितवान् (उरुम् विस्तीर्णम् (लोकम्) स्थानम् (अकरत्) कृतवान् (मह्यम्) मदर्थम् (एधतुम्) एधिवह्योश्चतुः। उ० १।७७। एध वृद्धौ−चतु। वृद्धिकरम् (नमन्ताम्) प्रह्वीभवन्तु (प्रदिशः) पूर्वादयः प्रकृष्टा दिशः (चतस्रः) (षट्) षट्संख्याकाः (उर्वीः) विस्तीर्णाः। आग्नेय्यादयश्चतस्रो मध्यदिशो नीचोच्चदिशौ च (घृतम्) प्रकाशम्। सारपदार्थम् (आ वहन्तु) आनयन्तु। अन्यद् गतम् ॥