अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 21
याव॑ती॒र्दिशः॑ प्र॒दिशो॒ विषू॑ची॒र्याव॑ती॒राशा॑ अभि॒चक्ष॑णा दि॒वः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
स्वर सहित पद पाठयाव॑ती: । दिश॑: । प्र॒ऽदिश॑: । विषू॑ची: । याव॑ती: । आशा॑: । अ॒भि॒ऽचक्ष॑णा: । दि॒व: । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२१॥
स्वर रहित मन्त्र
यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥
स्वर रहित पद पाठयावती: । दिश: । प्रऽदिश: । विषूची: । यावती: । आशा: । अभिऽचक्षणा: । दिव: । तत: । त्वम् । असि । ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.२१॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 21
विषय - ऐश्वर्य की प्राप्ति का उपदेश।
पदार्थ -
(यावतीः) जितनी बड़ी (विषूचीः) फैली हुई (दिशः) दिशाएँ और (प्रदिशः) मध्य दिशाएँ, और (यावतीः) जितनी बड़ी (आशाः) सब भूमी और (दिवः) आकाश के (अभिचक्षणाः) दृश्य हैं। (ततः) उस से (त्वम्) तू... म० १९॥२१॥
भावार्थ - परमेश्वर सब दिशाओं और सब दृश्यों की सीमा से बाहिर है ॥२१॥
टिप्पणी -
२१−(यावतीः) यत्प्रमाणाः (दिशः) पूर्वादयः (प्रदिशः) अन्तर्दिशाः (विषूचीः) अ० १।१९।१। सर्वत्रव्यापिकाः (आशाः) आ+अशू व्याप्तौ-अच्। दिशाः। तत्रत्या देशाः (अभिचक्षणाः) चक्षिङ् दर्शने-ल्यु। दृश्यानि। अन्यत् पूर्ववत् ॥