अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 20
गावः॑ सन्तु प्र॒जाः स॒न्त्वथो॑ अस्तु तनूब॒लम्। तत्सर्व॒मनु॑ मन्यन्तां दे॒वा ऋ॑षभदा॒यिने॑ ॥
स्वर सहित पद पाठगाव॑: । स॒न्तु॒ । प्र॒ऽजा: । स॒न्तु॒ । अथो॒ इति॑ । अ॒स्तु॒ । त॒नू॒ऽब॒लम् । तत् । सर्व॑म् । अनु॑ । म॒न्य॒न्ता॒म् । दे॒वा: । ऋ॒ष॒भ॒ऽदा॒यि॑ने ॥४.२०॥
स्वर रहित मन्त्र
गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम्। तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥
स्वर रहित पद पाठगाव: । सन्तु । प्रऽजा: । सन्तु । अथो इति । अस्तु । तनूऽबलम् । तत् । सर्वम् । अनु । मन्यन्ताम् । देवा: । ऋषभऽदायिने ॥४.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 20
विषय - आत्मा की उन्नति का उपदेश।
पदार्थ -
(गावः) विद्याएँ (सन्तु) होवें, (प्रजाः) प्रजाएँ (सन्तु) होवें, (अथो) और भी (तनूबलम्) शरीरबल (अस्तु) होवे। (देवाः) विद्वान् लोग (ऋषभदायिने) सर्वदर्शक परमेश्वर के [ज्ञान] देनेवाले के लिये (तत् सर्वम्) वह सब (अनु मन्यन्ताम्) स्वीकार करें ॥२०॥
भावार्थ - ब्रह्मवेत्ता, ब्रह्मोपदेशक जन को सब सुख प्राप्त होते हैं ॥२०॥
टिप्पणी -
२०−(गावः) वाचः। विद्याः (सन्तु) (प्रजाः) पुत्रपौत्रादयः (अथो) अपि च (अस्तु) (तनूबलम्) शरीरसामर्थ्यम् (तत्) (सर्वम्) (अनुमन्यन्ताम्) स्वीकुर्वन्तु (देवाः) विद्वांसः (ऋषभदायिने) परमेश्वरस्य बोधदात्रे-इत्यर्थः ॥