अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 21
अ॒यं पि॑पान॒ इन्द्र॒ इद्र॒यिं द॑धातु चेत॒नीम्। अ॒यं धे॒नुं सु॒दुघां॒ नित्य॑वत्सां॒ वशं॑ दुहां विप॒श्चितं॑ प॒रो दि॒वः ॥
स्वर सहित पद पाठअ॒यम् । पिपा॑न: । इन्द्र॑: । इत् । र॒यिम् । द॒धा॒तु॒ । चे॒त॒नीम् । अ॒यम् । धे॒नुम् । सु॒ऽदुघा॑म् । नित्य॑ऽवत्साम् । वश॑म् । दु॒हा॒म् । वि॒प॒:ऽचित॑म् । प॒र: । दि॒व:॥४.२१॥
स्वर रहित मन्त्र
अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम्। अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥
स्वर रहित पद पाठअयम् । पिपान: । इन्द्र: । इत् । रयिम् । दधातु । चेतनीम् । अयम् । धेनुम् । सुऽदुघाम् । नित्यऽवत्साम् । वशम् । दुहाम् । विप:ऽचितम् । पर: । दिव:॥४.२१॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 21
विषय - आत्मा की उन्नति का उपदेश।
पदार्थ -
(अयम्) यह (पिपानः) प्रवृद्ध, बली (इन्द्रः) बड़े ऐश्वर्यवाला जगदीश्वर (इत्) ही (चेतनीम्) चेतानेवाली (रयिम्) लक्ष्मी (दधातु) देवे। (अयम्) यही [परमेश्वर] (सुदुघाम्) अच्छे प्रकार पूर्ण करनेहारी, (नित्यवत्साम्) नित्य निवास देनेवाली (धेनुम्) वाणी और (वशम्) प्रभुत्व को (दिवः) हिंसा वा मद से (परः) परे [रहनेवाले] (विपश्चितम्) बुद्धिमान् पुरुष के लिये (दुहाम्) परिपूर्ण करे ॥२१॥
भावार्थ - अहिंसक, निरभिमानी विद्वान् पुरुष परमेश्वर की वेदवाणी द्वारा उन्नति करके आनन्द भोगते हैं ॥२१॥
टिप्पणी -
२१−(अयम्) व्यापकः (पिपानः) ओप्यायी वृद्धौ-कानच्, यलोपः। पिप्यानः। प्रवृद्धः। बली (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः। ऋषभः (इत्) एव (रयिम्) अ० १।१५।२। धनम् (दधातु) ददातु (चेतनीम्) चित संचेतने-ल्युट्, ङीप्। चेतयन्तीम् (अयम्) (धेनुम्) वाचम् (सुदुघाम्) अ० ७।७३।७। यथावत्। कामपूरयित्रीम् (नित्यवत्साम्) वस निवासे-स, उ० ३।६२। सदानिवासयित्रीम् (वशम्) प्रभुत्वम् (दुहाम्) अ० ३।१०।१, द्विकर्मकः। दुग्धाम्। प्रपूरयतु (विपश्चितम्) अ० ६।५२।३। मेधाविनम्-निघ० ३।१५। (परः) परस्तात् (दिवः) दिवु अर्दे मर्दने वा मदे च-डिवि। हिंसनात्। मदात् ॥