अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - चतुष्पदा प्रस्तारपङ्क्तिः
सूक्तम् - अतिथि सत्कार
प्र॒जानां॑ प्र॒जन॑नाय गच्छति प्रति॒ष्ठां प्रि॒यः प्र॒जानां॑ भवति॒ य ए॒वं वि॒द्वानु॑द॒कमु॑प॒सिच्यो॑प॒हर॑ति ॥
स्वर सहित पद पाठप्र॒ऽजाना॑म् । प्र॒ऽजन॑नाय । ग॒च्छ॒ति॒ । प्र॒ति॒ऽस्थाम् । प्रि॒य: । प्र॒ऽजाना॑म् । भ॒व॒ति॒ । य: । ए॒वम् । वि॒द्वान् । उ॒द॒कम् । उ॒प॒ऽसिच्य॑ । उ॒प॒ऽहर॑ति ॥९.१०॥
स्वर रहित मन्त्र
प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वानुदकमुपसिच्योपहरति ॥
स्वर रहित पद पाठप्रऽजानाम् । प्रऽजननाय । गच्छति । प्रतिऽस्थाम् । प्रिय: । प्रऽजानाम् । भवति । य: । एवम् । विद्वान् । उदकम् । उपऽसिच्य । उपऽहरति ॥९.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 4;
मन्त्र » 10
विषय - अतिथि के सत्कार का उपदेश।
पदार्थ -
(यः) जो [गृहस्थ] (एवम् विद्वान्) ऐसा विद्वान् है, (सः) वह (उदकम्) जल को (उपसिच्य) सिद्ध करके (उपहरति) भेंट करता है। वह (प्रजानाम्) सन्तानों के (प्रजननाय) उत्पन्न करने के लिये (प्रतिष्ठाम्) दृढ़ स्थिति (गच्छति) पाता है और (प्रजानाम्) सन्तानों का (प्रियः) प्रिय (भवति) होता है, (यः) जो (एवम्) ऐसा (विद्वान्) विद्वान् [गृहस्थ] (उदकम्) जल को (उपसिच्य) सिद्ध करके (उपहरति) भेंट करता है ॥९, १०॥
भावार्थ - मनुष्य विद्वान् अतिथियों की सेवा से बलवान् और गुणवान् सन्तान प्राप्त करके सुख पाता है ॥९, १०॥
टिप्पणी -
९, १०−(उदकम्) अ० ३।१३।४। जलम् (प्रजानाम्) सन्तानानाम् (प्रजननाय) उत्पादनाय (गच्छति) प्राप्नोति (प्रतिष्ठाम्) प्रकृष्टां दृढां स्थितिम् (प्रियः) प्रीतिपात्रम्। अन्यत् पूर्ववत् ॥