अथर्ववेद - काण्ड 2/ सूक्त 2/ मन्त्र 3
सूक्त - मातृनामा
देवता - गन्धर्वाप्सरसः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनपति सूक्त
अ॑नव॒द्याभिः॒ समु॑ जग्म आभिरप्स॒रास्वपि॑ गन्ध॒र्व आ॑सीत्। स॑मु॒द्र आ॑सां॒ सद॑नं म आहु॒र्यतः॑ स॒द्य आ च॒ परा॑ च॒ यन्ति॑ ॥
स्वर सहित पद पाठअ॒न॒व॒द्याभि॑: । सम् । ऊं॒ इति॑ । ज॒ग्मे॒ । आ॒भि॒: । अ॒प्स॒रासु॑ । अपि॑ । ग॒न्ध॒र्व: । आ॒सी॒त् । स॒मु॒द्रे । आ॒सा॒म् । सद॑नम् । मे॒ । आ॒हु॒: । यत॑: । स॒द्य: । आ । च॒ । परा॑ । च॒ । यन्ति॑ ॥२.३॥
स्वर रहित मन्त्र
अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्। समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥
स्वर रहित पद पाठअनवद्याभि: । सम् । ऊं इति । जग्मे । आभि: । अप्सरासु । अपि । गन्धर्व: । आसीत् । समुद्रे । आसाम् । सदनम् । मे । आहु: । यत: । सद्य: । आ । च । परा । च । यन्ति ॥२.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 2; मन्त्र » 3
Subject - Lord Supreme
Meaning -
The Lord sustainer of stars and planets of the universe is immanent in the pranic energies of nature and pervades all these irreproachable forces that move in the dynamic forms of existence. Sages tell me that their home and operation is in the oceans and in the waves of energy in space, and they always continue moving in and out and thus they maintain the dynamics of life in nature as well as in humanity.